SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ अद्वैतमञ्जरौ । वमसिद्धावपि न क्षतिः । न वा ज्ञानत्वादिसंसर्गमादाय सिद्धसाधनम् । संयोगसमवायविषयकत्वमादायार्थान्तरवारणाय विशेष्यकान्तम् । परस्परमसंयुक्तमसमवेतञ्च यद्विशेषणविशेष्यं तद्विषयकेत्यर्थः । ज्ञानत्वावच्छिन्नविषयतानिरूपिताया संयोगे समवाये वा सांसर्गिकविषयता तच्तून्येति यावत् । एतेन परस्परासंयुक्तत्वादिनिर्णयस्य संयोगादिनिष्ठसांसर्गिकविषयताकत्वसिद्धावप्रतिबन्धकत्वादुक्तविशेषणं नोक्तार्थान्तरस्य वारकमित्यपास्तम् । न चैवमपि ज्ञानवटस्वरूपयोः पक्षीभूतज्ञानाविषयस्य घटादेर्वा सांसर्गिकविषयतामादायार्थान्तरमिति वाच्यम् । स्वरूपयोस्स्वप्रतियोगिकत्वासम्भवेन घटादेरुक्तज्ञानाविषयत्वेन च तस्याः बाधात् । विशिष्टधीत्वात् सप्रकारकत्विात् । दण्डीति । दण्डज्ञानयोः विशिष्टधियः पक्षत्वे ज्ञानं सं. योगेन दण्डविशिष्टमिति भ्रमो दृष्टान्तः । यदि तु यत्त्वं तत्त्वं चानुगतमिति प्राचाम्मतमवलम्ब्यत, तदा यदुभयविशेष्याविशेषणकं यत् , तत् तदुभयविषयतानिरूपितया किञ्चिन्निष्ठसांसर्गिकविषयतया विशिष्टमिति सामान्यतो व्याप्तौ 'द ण्डीपुरुष' इति प्रमापि दृष्टान्तरसम्भवति । विशेषणविशेष्यसम्बन्धनिमित्तकोति। स्वीययोर्विशेष्यताविशेपणतयोराश्रयौ यौ, तयोस्सम्बन्धेन जन्येत्यर्थः । तेन संयोगज्ञानयोविशिष्टबुद्धौ संयोगजन्यत्वात् न सिद्धसाधनम् । स्वपदं पक्षीभूतधीपरम् । विषयविधया सम्बन्धस्य जनकत्वं निवेश्यम् । तेन कालादिविधया तदादाय नार्थान्तरम् । अत्र स्वत्वाननुगमात् साध्याप्रसिद्धिः । न च संयोगसमवायस्वरूपसम्बन्धानिमित्तकत्वेन पक्षविशेषणेऽपि सामान्यतस्सम्बन्धनिमित्तकत्वेन पक्ष एव सन्देहात् संशयरूपा प्रसिद्धिरिति वाच्यम् । तत्संशये हेतौ तत्सामानाधिकरण्यस्याप्यौचित्यावर्जितसंशयोदयेन व्याप्त्यनिश्चयात् । तावतापि दृष्टान्ते साध्यवैकल्याच्चेति दूषणं स्फुटत्वादुपेक्ष्य दूषणान्तरमाह-प्रथमे द्वितीये चेति । व्यभिचारश्चेति । न च लौकिकापरोक्षत्वस्य हेतौ निवेशान्न व्यभिचार इति वाच्यम् । सम्बन्धांशे तन्निवेश्यते, सर्वविषयांशे किं चिद्विषयांशे वा । आद्ये द्वितीये च 'ज्ञातो घट' इति चाक्षुषादिप्रमायां स्वरूपासिद्धिवाधौ । तृतीये सम्बन्धांशे परोक्ष व्यभिचारः । पक्षतावच्छेदके लौकिकमानसापरोक्षत्वनिवेशे चाक्षुषादौ साध्यासिद्धिः मन्मते आश्रयासिद्धिश्चेति भावः । ननु, स्वसम्बन्धिसमसत्ताकसम्बन्धविषयकत्वादिकं साध्यम् । अतो न बाधितसम्बन्धेनार्थान्तरमिति चेन्न । किश्चित्सम्बन्धिसमसत्ताकत्वं निवेश्यते, यावत्सम्बन्धिसमसत्ताकत्वं वा । आधे विषयस्यातात्त्विकत्वेनार्थान्तरावारणात् । द्वितीये त्वप्रसिद्धिः । ज्ञानज्ञेयोभयसमसत्ताकाप्रसिद्धेः। किञ्च स्वपदं पक्षस्य दृष्टान्तस्य वा विषयसम्बन्धं वदति । आधे साध्यवैकल्यम् । द्वितीये बाधः । वि. For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy