________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
अद्वतमञ्चरी ।
स्वतेति । तथा च भेदग्राहकं यद्यज्ज्ञानं, तत्र तत्र तत्तदन्यसर्वभिन्नत्वमर्थापत्तिविषयो वाच्यः । एवञ्चोक्तज्ञानस्य प्रत्यक्षार्थापत्त्याद्यनन्तत्वेनानुगतरूपं विना पक्षतया साध्यघटकतया च न तन्निर्देशसम्भवः । न च भेदग्राहकत्वेन तेषामनुगम इति वाच्यम् । भेदग्राहकभिन्नभेदस्य साध्यत्वे भेदग्राहकाणां मिथो भेदस्यार्थापत्त्यविषयतया तेष्वेवाद्वैतश्रुत्यवकाशादिति भावः । नानात्वात्। तत्तद्धर्मावच्छिनप्रतियोगिताकभेदत्वरूपत्वात् । विश्रान्ताविति । तत्तदनन्तधर्मावच्छिन्नप्रतियोगिताकभेदानां दुर्जेयत्वात् क्वचित् कस्य चित् भेदज्ञानासम्भव इत्यपि बोध्यम् । तथाहीति । प्रपञ्चस्येति शेषः । सर्वाभेदे उक्तार्थापत्तिविषये सति । स्वाभेदः स्वाभेदापत्तिः । कथमित्यादि । चरमज्ञाने आदौ लब्धपदा पश्चात् सर्वाद्वैतविषयेति कथमित्यर्थः । द्रागेव युगपदेव । प्रामाण्यमित्यादि । यत्र प्रत्यक्षादिना भेदो न गृहीतः, तत्र श्रुतेरबाधितविषयकत्वम् । प्रत्यक्षादिविषये तु सर्वत्र श्रुतेः प्रवृत्त्या प्रत्यक्षादिकं न बाधितविषयकं सम्भवति । अतः श्रुतिः प्रत्यक्षादिवाधिका । एवं श्रौतमद्वयज्ञानं सर्वद्वैतोच्छेदकत्वेन बाधकत्वाभिमतत्रत्यक्षादिस्वरूपोच्छेदकम् । अतः प्रत्यक्षादिकं न तद्बाधकम् । बाध्यज्ञानोत्पत्त्युत्तरकाले हि बाधकमनुच्छिन्नस्वरूपं वाच्यम् । सर्वकल्पनामूलोच्छेदकत्वादपि श्रौतज्ञानमवाध्यम् । तदुक्तं खण्डने-'प्रवृत्तेनाप्यनौचित्यमूलं येन न लूयते । तत्रानौचित्यसाम्राज्यं वैपरीत्यात्तु नात्र तत् ॥' इति । अत्राद्वैतज्ञाने इ. त्यादिरीत्या श्रुतेः बाध्यत्वशङ्कानिरासेन प्रामाण्यं व्यवस्थापयतामस्मदीयज्ञानानामेव क्रमेणोत्पत्तिः । श्रुत्या तु युगपदेव सर्वाद्वैतं बोध्यते । न तु प्रत्यक्षाद्यगृहीतभेदके चरमज्ञाने वा प्रथमतः पश्चादन्यत्राद्वैतं बोध्यत इति भावः । न स्यादिति । प्रत्यक्षादिरूपेणायोग्यताज्ञानेन प्रतिबन्धादिति शेषः । अत्यन्तासति विपरीततया निश्चिते कलहादिस्थल इति शेषः । अबाधादिति । कलहादिस्थले वाक्यार्थज्ञानस्यानाप्तवाक्यनन्यत्वादिना भ्रमत्वेऽपि श्रौतज्ञानस्योक्तरीत्या प्रमात्वे ज्ञानरूपबाधासम्भवादित्यर्थः । स्वतःप्रामाण्यनिश्चलां स्वतस्सिद्धप्रमात्वेनाप्रामाण्यज्ञानानास्कन्दिताम् । विपरीतज्ञानरूपायोग्यताज्ञानप्रतिवध्यता परोक्षापरोक्षसाधारणरूपेण न सम्भवति । प्रत्यक्षस्येच्छाविषयस्याप्रतिबध्यत्वेन तव्यावृत्तत्वरूपेणैव तस्याः वाच्यत्वात् । अत एवोक्तं मणिकारेण-'प्रत्यक्षादावुत्पन्ने ज्ञाने अप्रामाण्यमासज्यते बाधेन। अनुमिती तु उत्पत्तिरेव प्रतिबध्यत' इति । तथा च परोक्षस्यानुमितित्वेनैव प्रतिबध्यत्वम् । विपरीतधीसत्त्वे उद्बोधकसत्त्वे मानाभावेन तदभावादेव स्मृत्यनुत्पादात् अनुगतोद्बोधके मानाभावात् । मावे वा कलहादिस्थले शाब्दज्ञानस्य विपरीत
For Private and Personal Use Only