________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भद्वैतमञ्जरी ।
लवणस्यैव प्रमोत्पत्तेः पदतात्पर्यमावश्यकमिति भावः । अथवा लवणत्वतुरगत्वादिरूपेण सैन्धवादिपदार्थस्य तात्पर्ये निवेशेऽपि न क्षतिः । लवणकर्मकानयनपरमित्येवंरूपस्य तात्पर्यस्य वाक्यार्थघटितत्वेन शाब्दधीपूर्वं ज्ञातुमशक्यत्वेऽप्यानयने लवणकर्मकत्वप्रकारकधीपरमित्येवंरूपेण तात्पर्यस्य वाक्यार्थाघटितत्वेन पूर्व ज्ञातुं शक्यत्वात् । तथा चैवं व्याख्येयम् । तात्पर्यैक्ये पदार्थयोरेकसंसर्गघटितत्वेन तात्पर्यैक्ये । भेदात् उक्तसंसर्गाविषयकत्वेन भेदात् । पदार्थांशे वाक्यस्यानुवादकत्वेन पदार्थयोस्संसर्गाशमात्रप्रमापकत्वेन संसर्गस्थैक्यात् वाक्यतात्पर्यैक्यम् । संसर्गप्रमापकत्वस्यैव वाक्यतात्पर्यरूपत्वात् । पदतात्पर्य तु पदार्थभेदात् पदार्थसंसर्गाघटितत्वाच्च वाक्यतात्पर्यात् भिन्नम् । तस्य च वाक्यतात्पर्यविशेषग्राहकत्वेनोपयोगः। वस्तुतस्तु, पदपदं विभक्त्यन्तपदपरम् । वाक्यपदं तादृशपदद्वयपरम् । तथा चान्विताभिधानमते विभक्त्यन्तैकपदस्य शाब्दप्रमाजनकत्वस्यास्वीकारेऽपि मतान्तरे तत्स्वीकारात् । पदतात्पर्यमपि शाब्दप्रमाप्रयोजकम् । सर्वथा पदतात्पर्यस्यावश्यकत्वादर्थवादानां प्राशस्त्यादावपि तात्पर्यमस्त्येव । तथा च स्वतात्पर्यविषयो यः स्वघटकपदार्थसंसर्गः तद्बोधकत्वं मुख्यार्थकत्वं नार्थवादानाम् । किं तु स्वघटकपदार्थसंसर्गान्यतात्पर्यकत्वं मुख्यार्थकत्वमेवेति भावः । अत एवान्यशेषत्वस्यामुख्यार्थत्वे प्रयोजकत्वादेव । क्रय्या क्रयाहा। बर्हिषीत्यादि । बर्हिषि रजतं न देय'मितिविधेः 'हिरण्यं दक्षिणेति'विधेश्च शेषत्वेनेत्यर्थः। तत्प्राशस्त्येति । हिरण्यदानप्राशस्त्येत्यर्थः । तस्य हिरण्यदानस्य प्राशस्त्यं यत इति व्युत्पत्त्या रजतदानाप्राशस्त्येति चार्थः । यथाश्रुतं त्वसङ्गतम् । 'बर्हिषी'त्यादिविधिशेषस्याप्राशस्त्यलक्षकत्वावश्यकत्वात्। 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्रुवशीर्यत तद्रनतमभवत् पुरास्य संवत्सरात् गृहे रोदनं भवति तस्मात् बर्हिषि रजतं न देय' मित्यत्र बहिश्शब्दिते यज्ञे रजतदानं निषिध्यते । यथाश्रद्धं दक्षिणां ददातीति विहिते दक्षिणादाने रजतस्य स्वेच्छाप्राप्तत्वेन शास्त्राप्राप्तत्वान्न विकल्पः । 'हिरण्यं दक्षिणेति'विधेः शेषोऽपि तादृशं वाक्यम् । परं तु पुरास्येत्यादिस्थाने तस्माद्रजतमदक्षिण्यम श्रुजं होत्यादिकम् । तच्च तत्र 'न हि निन्दे'ति न्यायेन रजतनिन्दाद्वारा हिरण्यस्तुतिपरमिति भावः । सर्वं ब्रह्म।यतः तज्जलान्। जायत इति जः। लीयत इति लः।अनितीत्यन् । तस्य ब्रह्मणो जलान् तज्जलान् । उपादानत्वाधिकरणत्वकरणत्वानि सम्बन्धत्वरूपेण षप्ठ्या प्रतिपाद्यन्ते। 'शान्त उपासीते'ति शान्तस्सन् मनोमयत्वादिरूपेण ब्रह्मोपासीतेत्यर्थः । अत्यनायाससिद्धत्वेति । आयासो दुःखं स्वल्पमपि न भवति यथा, तथा सिद्धत्वेत्यर्थः । बलवदनिष्टाजनकत्वेति यावत् । लक्षकत्वादिति । उक्तप्राशस्त्यज्ञानस्य विध्यपेक्षितत्वेनार्थवादाधिकरणन्यायेन
For Private and Personal Use Only