________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका ।
कत्वं स्थितमेव । अतात्पर्यविषयमत्वर्थलक्षणा तु न तत्र बाधिकेति भावः । इष्यमाणेत्यादि । इप्यमाणत्वेन रूपेण पदादनुपस्थितस्य ज्ञानस्य साधनाकांक्षाविरहेण विचाररूपे साधने अन्वयासम्भवात् इप्यमाणज्ञानत्वेन ज्ञाधातुना ज्ञानं लक्ष्यत इति केचित् । तेन रूपेण ज्ञानस्यानुपस्थितावपि साधनान्वये बाधकाभावः । अन्यथा विचारस्यापि साधनत्वेनानुपस्थितस्य साध्यानाकांक्षत्वापत्त्या साधनविचारत्वेन विचारस्य सन्प्रत्ययलक्ष्यतापत्तेरित्यन्थे । विधितात्पर्येति । जिज्ञासापदबोध्यस्य ज्ञानसाधनविचारस्याध्यातकर्तव्येतिपदलब्धभावनायां करणत्वेनाथशब्दलभ्यमुमुक्षाविषयमोक्षस्य कर्मत्वेन अथशब्दलम्यशमादीनामितिकर्तव्यतात्वेनान्वयादंशत्रयान्वितभावनाया विध्यन्वय इति भावः । मोक्षसाधनज्ञानं विचारेण भावयेदिति वाक्यार्थस्तु, न युक्तः । ‘वषट्कर्तुः प्रथमभक्ष' इत्यादाविवैकपदोपस्थितयोरुद्देश्यविधेयभावस्याव्युत्पन्नत्वात् । इष्टसाधनत्वमेव विधिप्रत्ययार्थ इति औपनिषदादिमते तु कर्तव्येतिपदस्यानध्याहारेऽपि न क्षतिः । अथशब्दार्थस्य मुख्यमुमुक्षोत्तरत्वस्य ज्ञानसाधनविचारे लाभेन मोक्षरूपेष्टसाधनत्वलाभात् । पक्षद्वयेऽपि ज्ञानसाधनस्य मोक्षसाधनत्वं बुध्यमानं ज्ञानद्वारकमेव पर्यवस्यतीति न तादृशसाधनत्वलाभाय वाक्यान्तरं कल्प्यते । येन तच्छेषत्वेन श्रूयमाणवाक्यस्यामुख्यार्थत्वमिति भावः । ननु, नार्थवादस्यामुख्यार्थता सम्भवति । सा हि स्वप्रतिपाद्यवाक्यार्थभिन्नतात्पर्यकत्वम् । तेषां च प्राशस्त्यादिधीद्वारवाक्यार्थात् स्वप्रतिपाद्यात् भिन्ने प्राशस्त्यादौ न तात्पर्यम् । तेषां पदविधया तदुपस्थापकत्वात् । पदस्य स्वार्थे तात्पर्याभावात् । प्राशस्त्यादिघटिते तु वाक्यार्थे सार्थवादविधेरेव तात्पर्यम् । न तेषाम् । यदि तु तेषां प्राशस्त्यादौ तात्पर्यं स्वीक्रियते, तदा खतात्पर्यविषयबोधकन्वेन मुख्यार्थत्वं स्यात् । न चोक्तवाक्यार्थबोधकत्वमेव तदिति वाच्यम् । अर्थवादस्यापि वाक्यत्वेन तदर्थप्राशस्त्यादेरपि वाक्यार्थत्वात् । तत्राहअन्यदित्यादि ! वाक्यतात्पर्यैक्य इति । लवणत्वादिविशिष्टघटितवाक्यार्थस्य शाब्दबोधात् पूर्वं ज्ञातुमशक्यत्वेन न वाक्यतात्पर्यं तद्धटितम् । किं तु सैन्धवपदाथत्वेन लवणादिघटितवाक्यार्थघटितम् । तथा च लवणतुरगरूपपदार्थभेदेऽपि तस्यैक्यम्। भेदात् वैलक्षण्यात् । तच्च पदार्थविशेषप्रमारूपकार्यप्रयोजकत्वम् । विषमित्यादि । विषभोजनमिष्टसाधनमित्यत्रैकं वाक्यस्य तात्पर्यम् । शत्रोरन्नभोजने प्रसक्ते आप्तेनोतस्य विषमित्यादेः यदि शत्रोरन्नं भुज्यते, तदा 'विषं भुट्वे'ति वाक्यार्थधीद्वारा शत्रोरन्नभोजनमनिष्टसाधनमित्यत्रापरं तात्पर्यमित्यर्थः। तथा च वाक्यस्य लवणतुरगपदार्थद्वयसाधारणप्रमाजननोपयोगितात्पर्यकत्वेऽपि लवणमात्रपरत्वेन सैन्धवपदज्ञाना
For Private and Personal Use Only