SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र० दे प्रत्यक्षप्राबल्यभङ्गः] लघुचन्द्रिका । थ्यात्वानुमितौ प्रतिबन्धिकेत्याशयेन शङ्कते । ) न चेति । प्रातिमासिकेति । ब्रह्माविषयकधीबाध्येत्यर्थः । विषयकत्वादीति । 'सोऽय'मिति वाक्यजन्यनिष्प्रकारकधीबाध्यभेदबुद्धेरुक्तवैलक्षण्याद्विषयकत्वादीत्यादिपदमुक्तम् । तेन ब्रह्मधीबाध्यविषयकत्वसङ्ग्रहः । तनिषेधेति । तेन रूपेण द्वैतनिषेधेत्यर्थः । अप्रसक्तप्रतिपेधकतेति । येन रूपेण यत्र यत् न ज्ञातं, तेन रूपेण तत्र तन्निषेधकतेत्यर्थः । चक्षुरादीत्यादि । दृश्यत्वादिरूपेण चक्षुरादिना ब्रह्मणि ज्ञातस्य द्वैतस्य निषेधपरत्वादित्यर्थः । नान्तरिक्ष इत्यादि । यत्र निषेधे तात्पर्य, तत्र प्रतियोगिप्रसक्त्यादिकं विना तत्कल्पनवैयर्थ्यात् तदावश्यकता । यत्र तु नान्तरिक्ष इ. त्यादौ न प्रतिषेधपरत्वम् । किं तु मानान्तरसिद्धतदनुवादद्वारा विधेयस्तुतिपरत्वं तत्र न तदावश्यकता । तथा च सत्यत्वविशिष्टद्वैतरूपप्रतियोगिनो ब्रह्मणि ज्ञानरूपां प्रसक्तिं विनापि मिथ्यात्वानुमानादिसिद्धस्य ब्रह्मगतस्य सत्यत्वरूपेण द्वैताभावस्यानुवादद्वारा उक्तश्रुतीनां विधेयब्रह्मस्तुतिपरत्वमिति भावः । अर्थवादाधिकरणे 'न एथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवी'त्यत्र न प्रतिषेधधीः। प्रतियोगिनोऽन्तरिक्षादिनिष्ठचयनस्याप्रसक्तत्वात् । चयनविधिना एथिव्यां चयनस्य प्रमितत्त्वेन प्रतिषेधबुद्ध्यसम्भवात् । न च पाक्षिकत्वाय निषेध इति वाच्यम् । 'यद्यग्नि चेष्यमाणा' इति पाक्षिकत्वसिद्धवदनुवादादिना तस्य सिद्धत्वात् । तस्मादुक्तवाक्यमप्रमाणमिति प्राप्ते, न पृथिव्यामिति वाक्यं शुद्धष्टथिव्यां चयनाभावस्य नित्यानुवादो 'हिरण्यं निधाय चेतव्य'मिति विहितहिरण्यस्तुत्यर्थः । तदुपपादकं नान्तरिक्ष इत्यादिकम् । यथान्तरिक्षादौ न चयनं, तथा शुद्धपृथिव्यामिति सिद्धान्तितम् । तात्पर्यवदिति । तात्पर्य तत्परता । ब्रह्मपरतेति यावत् । पिपासोपशमनेति । दुःखविशेषानुत्पादेत्यर्थः । सामर्थ्योति । प्रयोजकशक्तीत्यर्थः । पर्यवसायिनी विशिष्टा । न लौकिकमित्यादि । लौकिकादिप्रत्यक्षं न मिथ्यात्वानुमापकस्य बाधकम् । नापि पारमार्थिकत्वसाधकं लिङ्गं तद्बाधकमित्यर्थः । प्रत्यक्षयोग्यसत्त्वासम्भवात् प्रत्यक्षबाधोद्धारः ॥ इति लघुचन्द्रिकायां प्रत्यक्षबाधोद्धारः ।। भासते । आरोप्योत्पत्तिकालोत्पन्नतादात्म्यापन्नं सदपरोक्षतया भाति । तथा च सत्तादात्म्यांशे लौकिकमपि प्रत्यक्षं न बाधकम् । तस्य मिथ्यात्वेन प्रपञ्चमिथ्यात्वसिद्ध्यनुकूलत्वादिति भावः । प्राक् मिथ्यात्ववादे । अधिष्ठानानुवेधः आरोप्यघटादितादात्म्यापन्नमधिष्ठानम् । घटादिष्वस्ति आरोप्यमाणे कार्यवर्गे घटादावन्तर्भूतम् । न त्वधिष्ठानम् । सत्त्वं सद्रूपम् । न तथा नारोप्यमाणकार्यवर्गान्तर्गतम् । अस्य उक्तार्थस्य । अथ संदूपज्ञानस्य वेदान्तवाक्याधीनस्य सद्रूपनिष्ठवटादितादात्म्यबाधकत्वेन सद्रूपं For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy