SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी नेन । अनित्यत्वादीत्यादिना निषेधस्याव्याप्यवृत्तित्वम् । एवकारात्तु न मिथ्यात्वधारूपो बाधः । मिथ्यात्वस्य प्रतिपन्नदेशकालावच्छिन्नघटितत्वादिति भावः । अबाध्यत्वेति । प्रतिपन्नदेशकालावच्छिन्ननिषेधस्य यत् प्रतियोगित्वं तद्धीविषयत्वसामान्याभावस्यानवच्छिन्नाधिकरणत्वेत्यर्थः । प्रामाण्यं व्यवहारकालावच्छिन्नस्य मिथ्यात्वनिश्चयाविषयत्वस्य य आश्रयः तद्विषयकधीत्वरूपम् । अत्रेदं बोध्यम् । तद्रूपप्रामाण्यस्य साक्षिणा ग्रहणेऽपि विरोधाभावादिति यदुक्तं तत्रापिशब्देन तद्रूपप्रामाण्यं न साक्षिणा ग्रहीतुं शक्यत इति सूचितम् । तथा च तार्किकादिरीत्या साक्षाक्रियमाणस्यैव साक्षिभास्यता वक्तुं शक्या । अन्यथा पिशाचाद्यभावस्यापि तदुक्त्यापत्तेः । ताकिकादिरीत्या तु व्यवहारकालावच्छिन्नस्य मिथ्यात्वनिश्चयाविषयत्वस्य न साक्षात्कारम्सम्भवति । घटादिकं यदि व्यवहारकाले मिथ्यात्वेन निश्चीयेत, तदा तथा मयोपलभ्यतेत्यापादनासंभवेन योग्यानुपलम्माभावात् । पुरुषान्तरीयमिथ्यात्वनिश्चये सत्यपि मयि तदभावेन मम तथोपलम्भाभावसम्भवात् । अथ निश्चीयेतेत्यत्रापि मयेति विशेषणं देयं, तथा ऽपि व्यवहारकालीनस्य भूतभाविकालघटितस्यापि सम्मवेन तद्धटितस्य बाधस्य सत्त्वेऽपि नोपलम्भसम्भव इति न तदापत्तिः । किं च मिथ्यात्वमतीन्द्रियासन्निकटाभावादिघटितमिति तद्धटितनिश्चयविषयत्वस्य सत्त्वेऽपि तत्त्वेन रूपेणोपलम्भासम्भवान्नोपलम्भापत्तिरिति नानुपलब्धेः प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकत्वरूपा योग्यतेति । न चैवं प्रमात्वस्य स्वतोग्राह्यत्वाभावाद्दोषासमवहितज्ञानमात्रस्य प्रमात्वग्राहकमानानवतारेऽपि प्रवर्तकत्वमानुभाविकं व्याहन्येतेति वाच्यम् । मिथ्यात्वेन अज्ञातं यत् तदविषयकज्ञानत्वरूपप्रमात्वस्य ज्ञानसामान्यग्राहकसाक्षिग्राह्यत्वरूपस्वताग्राह्यत्वसम्भवान् प्रवृत्तिसामान्ये ताढशप्रमात्वेन ज्ञायमाननिश्चयस्य हेतुत्वसम्भवात् 'ज्ञातत्वेनाज्ञातत्वेन च सर्वं साक्षिभास्य'मिति विवरणोक्तेः । अज्ञातत्वेन मिथ्यात्वविशिष्टस्य साक्षिभास्यत्वसम्भवात् भ्रमेऽपि बाधात् पूर्वमुक्तप्रमात्वधीसम्मवेन ततः प्रवृत्तिसम्भवात् । एवं संवादिप्रवृत्तौ व्यवहारकालाबाध्यविषयकत्वेन हेतुत्वे न मानम् । संवादित्वस्य विसंवादित्वस्य वा जन्यतानवच्छेदकत्वात् । अन्यथा विषयनिष्ठा यावन्तो धर्माः सद्व्यक्तितदन्यव्यक्त्यन्यतरत्वादयस्तत्प्रत्येकवदंविशेष्यकप्रवृत्तित्वेनापि जन्यतापत्तेरिति भावः । (ननु, दृश्यत्वादिहेतोः प्रत्यक्षबाध्यत्वं मास्तु । अनुमानबाध्यत्वं तु स्यात् । येन हेतुना भवतां व्यावहारिकत्वस्यानुमितिः पूर्व सिद्धा । तेनैव पारमार्थिकत्वस्यानुमितिस्सिन्हा । सा चेदानीं जायमानायां मि १. 'दृश्यत्वादिहेतोः प्रत्यक्षबाध्यत्वे निरस्ते अनुमानबाध्यत्वं शङ्कते ।' इति पाठान्तरम् । For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy