SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र० दे प्रत्यक्षबाधोद्धारः] लघुचन्द्रिका। ष्टधीविषयत्वस्यावश्यकत्वात् । तस्मात् पक्षधरान्तप्राचीनतार्किकादिसम्मतं भासमानवैशिव्यस्य भासमाने प्रतियोगित्वानुयोगित्वे प्रकारताविशेष्यते इति तु मतमेव रम्यम् । तथा च 'प्रमेयव'दिति निश्चयस्य 'अयं घटो न वेति धीविरोधित्वं दुर्वारम् । ननु, भासमानवैशिष्ट्यप्रतियोगिता शुद्धघटत्वादिनिष्ठा तादृशधीविरोधितावच्छेदके निवेश्या । प्रमेयत्वाद्यवच्छिन्ना तु सा ततोऽन्येति नोक्तनिश्चये उक्तविरोधित्वापत्तिरिति चेन्न । प्रमेयत्वघटत्वत्वाद्यवच्छिन्नप्रतियोगितानामन्यतमस्यैव घटो न वेत्यादिज्ञाने भानेन तस्यास्तदन्यत्वे मानामावात् । इति लघुचन्द्रिकायां प्रत्यक्षबाधोद्धारे सामान्यप्रत्यासक्तिभङ्गः ॥ तादृगिति । प्रतिपन्नोपायौ त्रैकालिकनिषेधेत्यर्थः । साक्षात् ज्ञानाज्ञानविशेषणनैरपेक्ष्येण गगनादेः साक्षिमास्यत्वस्वीकारात् । भाविकालनिषेधेति । भाविकाले प्रतीयमाननिषेधेत्यर्थः । साक्षिणः प्रमाणवृत्त्यनुपहितसाक्षिणः । विद्यमानसर्वावभासकत्वेन विद्यमानमात्रे तादात्म्येन विद्यमानकाले सम्बद्धतया । अविद्यमानेत्यादि । अविद्यमानो यो भाविबाधः भाविकालावच्छिन्नं प्रतिपन्नोपाधौ निषेधप्रतियोगित्वधीविषयत्वं, तदभावासाधकत्वादित्यर्थः । उक्तधीविषयत्वस्येदानी साक्ष्ययोग्यत्वात्तदभावोऽपीदानी तथा । साक्षिणैव हि ताढशविषयत्वं ज्ञेयम् । तत्र मानान्तरस्येदानीमनवतारात् ।अवतारे वा तत एव तदभावग्रहासम्भवादिति भावः । अज्ञाततया तादृशामावग्रहणं तु न वस्तु साधकम् । तस्याज्ञातांशे निश्चयत्वाभावात् । साक्षिग्राह्यत्वं स्वीकृत्याह-भ्रमप्रमेति । सुखाद्यंशे प्रमात्वस्येव शुक्तिरूप्याद्यंशे भ्रमत्वस्यापि गृह्ममाणत्वेन त्रिकालनिषेधाप्रतियोगित्वांशेऽपि भूमत्वशङ्कासम्भव इति भावः । व्यवहारेत्यादि । व्यवहारकालाबाध्यविषयकत्वमात्रेण ज्ञाने प्रवृत्तिसामान्यप्रयोजकत्वादिसंवादोपपतेरित्यर्थः । ननु, दोषसमवहितप्रमायां प्रमात्वाग्रहेऽपि प्रवृत्यापत्तेः प्रमात्वेन ज्ञायमाननिश्चय एव प्रवर्तकः । त्वन्मते च विषयाबाधस्य साक्ष्यग्राह्यत्वात् तस्यानुपपत्तिस्तत्राह-तद्रूपति । ननु, त्वन्मते संवादिप्रवृत्तिर्न स्यात् । तस्यां त्रिकालाबाध्यविषयकत्वेन हेतुत्वकल्पनादित्याशङ्कय प्रवृत्तौ यादशमविसंवादित्वं तद्धटितमेव प्रमात्वं प्रवर्तकज्ञानेऽपेक्ष्यते । औचित्यादित्याशयेनाहन हीत्यादि । संवादीति । व्यवहारकालाबाध्यविषयकेत्यर्थः। व्यावृत्तमिति । शुक्तिरूप्यादिविषयकप्रवृत्तेरुक्तसंवादित्वाभावात् शुक्तिरूप्यादिज्ञानाच्यावृत्तं प्रामाण्यमुक्तप्रवृत्तिप्रयोजकमिति भावः । विषयकत्वमेवेति । स्मृतेरपि संवादिप्रवृत्तिजनकत्वात् तत्साधारण्यं नदोषायेति भावः । अनेन इदानीन्तनेन प्रपञ्चज्ञा For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy