________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
नारोप्यान्तर्गतमिति समाधत्ते-न सन्नित्यस्येति । आरोप्यवर्गों न सद्रूपघटित इति साध्ये हेतुः सन्नित्यस्येत्यादि । अनेनेति तृतीया सहार्थे । सामानाधिकरण्यस्य तादा. त्म्यस्य । सन्नित्यस्येति सामानाधिकरण्ये बाधे चान्वेति । तथा च सन्नित्यस्य घटादिना सहितं यत् तदीयतादात्म्यं भ्रमे प्रतीयते, तस्य सद्रूपज्ञानरूपबाधोच्छद्यत्वादित्यर्थः । अत्रोक्तोच्छेदयोग्यत्वं सदुपादानकत्वसदास्यत्वादिकं हेतुतया विवक्षितम् । तेन नोक्तान्योन्याश्रयः । तमेव हेतुं साधयति-तथा हीत्यादिना युक्तमित्यन्तेन । निबन्धनं घटितम् । जातेस्सर्वगतत्वपक्षे अभावादौ तत्सत्त्वेऽपि तदस्फुरणादेव तत्सामानाधिकरण्यबुद्ध्यभावः । अतो जातिस्फुरणेत्युक्तम् । अन्यथा, साक्षात्सम्बन्धस्य प्रामाणिकत्वसम्भवेऽपि परम्परासम्बन्धकल्पने । सम्बन्धभेदः साक्षात्सम्बन्धनानात्वम् । घटादेस्संयोग एव समवाय एव वा साक्षात्सम्बन्धोऽस्तु । कपालादौ भूतलादौ वा परम्परासम्बन्धसम्भवात् । अथ व साक्षात् क्व च परम्परेत्यस्याविनिगम्यत्वादुभयत्र परम्परासम्बन्धाननुभवाच्चोभयत्रापि साक्षात्सम्बन्धः । तर्हि द्रव्यादित्रये साक्षात् अन्यत्र परम्परेति वा अन्यत्रैव स्वरूपसम्बन्धेन समवायत्वाभावत्वादिवदखण्डोपाधिस्सत्ता वर्तते । द्रव्यादित्रये तु स्वरूपसम्बन्धघटितपरम्परासम्बन्धेनेति वेत्यस्याविनिगम्यत्वात् उभयत्र परम्परासंबन्धाननुभवाच्च उभयत्रापि साक्षात्सम्बन्धः । तत्र घटादेरुत्पत्तिकाले कपालादौ संयोगस्य भूतलादौ समवायस्य चासम्भवात् सम्बन्धभेदसिद्धावपि प्रकृते एक एव सम्बन्धस्सर्वत्र सम्भवतीति स एव कल्प्यते । न च जन्यसत्त्वावच्छिन्ने द्रव्यत्वेनोपादानत्वमवश्यं वाच्यम् । अन्यथा कपालरूपादेः कारणस्य स्वसमवायिसमवेतत्वसम्बन्धेन घटादाविव कपालरूपादावपि सत्त्वात्तत्रापि रूपादिकमुत्पद्येत । तथा च द्रव्यादित्रये सत्तासमवायस्यावश्यकत्वात् तद्धटितपरम्परासम्बन्धेनान्यत्र सत्तासम्भवादन्यत्र सत्तायास्स्वरूपसम्बन्धोक्तिर्न युक्तेति वाच्यम् । एकैका एव नीलारुणादिव्यक्तय इत्यस्मिन्मते रूपादीनामाकाशादिवदविद्यादिजन्यत्वेऽपि कपालरूपाद्यजन्यत्वेनोक्तयुक्त्यनवकाशादिति भावः । अननुगतेनापीत्यादि । अनेकव्यक्त्यनुगतवस्तुविषयकत्वेन सर्वसम्मतप्रतीतेरननुगतानेकार्थविषयकत्वस्वीकारे जातिमात्रोच्छेदापत्तिः । गन्धादिकारणतावच्छेदकतयापि प्रथिवीत्वादिनातिन सिद्ध्येत् । 'पृथिवी गन्धकारण'मित्यादिप्रतीतेरपि तत्तव्यक्तित्वावच्छिनकारणत्वविषयकत्वस्य वक्तुं शक्यत्वात् । अनेकतादृशकारणतादिव्यक्तिकल्पनागौरवं तु कल्पनारूपप्रतीतेरनेकविषयकत्वगौरवे पर्यवसन्नमिति भावः । सर्वत्र अभावादिभिन्नस्थलेऽपि । अभावादौ स्वरूपसत्ताशङ्कायाः 'न च स्वरूपे'
For Private and Personal Use Only