________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
सा च ज्ञाननिष्ठा । ज्ञाननिष्ठानुगतकारणाताद्यवच्छेदकतया कल्प्यमानत्वात् । न च विषयनिष्ठापि सा प्रतियोगितासम्बन्धेन तदवच्छेदिकास्त्विति वाच्यम् । कारणवृत्तिधर्मस्यैव कारणतावच्छेदकत्वेन कल्पनस्यौचित्यात् । तत्प्रतियोगितया चार्थे विषयत्वव्यवहारः । परे तु 'विषयत्वविषयित्वे भिन्ने एव । प्रतियोगित्वानुयोगित्वे इव भावाभावयो'रित्याहुः । इत्थं च स्वभावविशेष इत्यस्य स्वीयधर्मविशेष इत्यर्थः । प्रकाशस्येत्यनेन ज्ञानधर्मस्य विषयतात्वोक्त्या इच्छादेर्न स्वधर्मो विषयता । किं तु घटादिविषयकज्ञानजन्यत्वं घटादिविषयकज्ञानमेव वेति प्राञ्चः।तन्न । जन्यतावच्छदकतथेच्छादावपि विषयतासिद्धेः । ईश्वरेच्छाया जन्यत्वाभावेन तत्रोक्तरीत्यसम्भवात् । ज्ञानोपरमेऽपीच्छादौ सविषयकत्वव्यवहारस्य ज्ञानेनासंभवात्। इच्छायामेव स्वभावो विषयता । ज्ञाने तु तज्जनकत्वमित्यस्यैवापत्तेश्च । तस्मात् ज्ञान इवेच्छादावप्यतिरिक्तैव विषयता । तदयं शिरोमणितदीयटीकासिद्धार्थः । तथा च 'घटो न वे'ति संशये घटत्वांशे अन्याप्रकारकत्ववाटितरूपेण प्रतिबन्धकत्वे गौरवं यद्यपि, तथापि घटत्वस्य या प्रकारतान्तरनिरूपितप्रकारतान्यप्रकारता, तच्छालिनिश्चयत्वेनैव तत्सम्भवात् । 'प्रमेयवदिति निश्चयस्योक्तसंशयविरोधित्वे मानाभावः । न चोक्तप्रकारतान्यत्वनिवेशे गौरवात् घटत्वप्रकारतावन्निश्चयत्वेनैव तत्स्वीकारादुक्तनिश्चयस्याप्युक्तविरोधित्वसिद्धिरिति वाच्यम् । प्रमेयत्वाद्यवच्छिन्नप्रकारताभ्यः शुद्धघटत्वादिप्रकारताया भिन्नत्वेन तद्व्यक्तेः निश्चयोपरि घटत्वस्य संसर्गतया निवेशनागौरवात् । न च जातित्वतव्यक्तित्वादिरूपेण घटत्वप्रकारतावन्निश्चयस्यापि विरोधित्वान्नोक्तरूपेण प्रतिबन्धकत्वकल्पनं युक्तमिति वाच्यम् । तादशनिश्चयस्योक्तविरोधित्वे विवादात् । निश्चिताव्यभिचारकं रूपं परित्यज्य गृह्यमाणव्यभिचारकेण रूपेण कारणत्वकल्पनस्यान्याय्यत्वात् । अयं घटत्वत्वविशिष्टवानिति निश्चयस्योक्तविरोधित्वे सर्वसम्मतत्वेऽपि न क्षतिः । घटत्वत्वस्य घटेतरासमवेतत्वरूपघटत्वव्याप्यतारूपत्वेन तद्विशिष्टप्रकारकनिश्चयत्वेन पृथगेव प्रतिबन्धकत्वस्वीकारादिति चेन्न । तस्य पूर्वपक्षस्य स्वरूपसम्बन्धेत्यादिमूलेन निरस्तत्वात् । स्वं स्वीयज्ञानीयं यत् भासमानवैशिष्ट्यप्रतियोगित्वानुयोगित्वाभ्यामतिरिक्तं प्रकारताविशेष्यतारूपं तस्य ज्ञानविषययोस्सम्बन्धविशेषस्याभ्युपगमे अनिर्वचनीयस्य विचारासहस्य वादस्योक्तसम्बन्धकथनस्यापत्तेरित्यस्योक्तमूलार्थत्वसम्भवात् । ननु, कथमुक्तवादो विचारासह इति चेदत्रोच्यते । न प्रकारताविशेष्यते क्लुप्तपदार्थातिरिक्ते । भासमानवैशिष्टयप्रतियोगित्वानुयोगित्वयोः क्लुप्तयोरेव तद्रूपता-- सम्भवात् । सांसर्गिकविषयतामात्रमतिरिक्तं स्वीक्रियते । तथा च संयोगेन घटविशि
For Private and Personal Use Only