SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्र ० दे प्रत्यक्षबाधोद्धारः ] लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only १३९ । घटत्वोपलक्षिततदुपहितयोः पटेऽपि सत्त्वादुक्तदोषावरणादिति वाच्यम् । प्रकारावच्छिन्नं हि ज्ञानं विशेष्यं प्रति विशेष्यता । विशेष्यविशेषणे प्रति विषयतात्वं तु केवलस्यैव सविकल्पकस्य । एवं च यदवृत्तिना येन विशिष्टं यत् ज्ञानं यस्य विषयता, तत्र तस्य तत् भ्रमः । यद्वृत्तिना येन विशिष्टं यत् ज्ञानं यस्य विषयता, तत्र तस्य तत् प्रमा । वस्तुतस्तु येन सम्बन्धेन यत्ति यद्विशेषणविशिष्टेन येन सम्बन्धेन विशिष्टं ज्ञानं यस्य विशेष्यता, तेन सम्बन्धेन तत्र तस्य तत् प्रमेति वाच्यम् । एवं येन सम्बन्धेन यदवृत्तीत्यादिरीत्या भूमो - वाच्यः । तथा च यद्विशिष्टेन येन सम्बन्धेन विशिष्टं ज्ञानं यत्र विशेष्यता, तत्र तयोराद्यं विशेषणम् । अन्त्यं संसर्ग इति लभ्यते । विशेषणसंसर्गयोवैशिष्ट्यं तु सामानाधिकरण्यमेकस्मिन् ज्ञाने तत्स्वरूपविषयतासम्बन्धेन सम्बन्धित्वम् । ज्ञाने संसर्गस्य वैशिष्ट्यं तु ज्ञानस्वरूपा विषयतैव । न चैवमपि घटत्वेन घटो ज्ञानविशेष्य इति न स्यात् । घटत्वविशिष्टज्ञानरूपविशेष्यताया विशेष्यशब्देनैव लाभेन घटत्वेनेत्यस्य पुनरुक्तत्वापत्तेरिति वाच्यम् । विशेष्यशब्देन किञ्चिद्धर्मविशिष्टेन किञ्चित्सम्बन्धेन विशिष्टं ज्ञानमुच्यते, न तु घटत्वादिधर्मविशिष्टेन समवायेन विशिष्टम् । तथा सति ज्ञात इत्युक्ते केन रूपेणेति प्रश्नानुपपत्तेः । तथाच घटत्वेन घटो ज्ञात इत्यादौ घटत्वाद्यभिन्नवर्मविशिष्टसम्बन्धविशिष्टज्ञानरूपविषयतासम्बन्धी घट इत्यर्थकत्वान्न घटत्वेनेति पुनरुक्तमिति चेन्न । घटत्वे समवायेन घटप्रकारकज्ञानस्यापि घटविशेष्यकत्वापच्या 'अयं घट' इत्याकारकतद्धीव्यक्तिस्तादृशसमवायविशिष्टा घटविशेष्यतेति वाच्यम् ! तथा च घटनिष्ठा तद्धीव्यक्तिर्विशेष्यता । घटत्वनिष्ठा विशेषणता । समवायनिष्ठा संसर्गतेत्यस्यैव लाघवादापत्तेः । घटेच्छादौ घटादिविषयकज्ञानादीनामनुगतरूपेण कारणत्वाद्यनुपपत्तेश्च । किं च विशेषणविशिष्टेन संसर्गेण विशिष्टं ज्ञानं विशेष्यस्य विशेष्यता । अथ वा विशेष्यविशिष्टेन संसर्गेण विशिष्टं ज्ञानं विशेषणं प्रति विशेषणता । तयोराद्यनिष्ठतडी रूपविषयता विशेष्यता । अन्त्यनिष्ठतीरूपविषयता संसर्गता । अथवा विशेष्यविशिष्टेन विशेषणेन विशिष्टं ज्ञानं संसर्गं प्रति सांसर्गिकविषयता । तयोराद्यनिष्ठा सा विशेष्यता । अन्त्यनिष्ठा सा विशेषणतेत्यस्य विधात्रयस्याविनिगम्यत्वात् प्रागुक्ता विशेष्यादिव्यवस्था दुर्लभा । तस्मादतिरिक्तैव विषयता । तद्विशेषास्तु प्रकारत्वादयः । एवं विषयतात्वप्रकारतात्वादिकमपि । एतेन प्रतियोगित्वाधिकरणत्वादयोऽपि व्याख्याताः । विषयताया अपि विषयता अतिरिक्तैव । एवं तस्या अपीति प्रामाणिकी अनवस्था स्वीक्रियत एव । अन्यथानुपपत्तेः ।
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy