________________
Shri Mahavir Jain Aradhana Kendra
१२८
www.kobatirth.org
अद्वैतमं ।
Acharya Shri Kailassagarsuri Gyanmandir
क्तज्ञानं विरोधीत्यपि निरस्तम् । समानविषयकस्यैव विरोधित्वात् । ययक्तौ यद्व्यक्त्यभावप्रकारकं यत् ज्ञानं तद्व्यक्त्यंशे तव्यक्तिविषयकज्ञानस्यैव तत्समानविषयकत्वात्तादृशज्ञानजन्यस्य 'प्रमेयवदिद' मित्यादिज्ञानस्य विरोधित्वसम्भवाच्च । ननु, बौद्धाधिकारे प्रकाशस्य सतस्तदीयतामात्ररूपः स्वभावविशेषो विषयतेत्युक्तम् । तत्र शिरोमण्यादिभिर्व्याख्यातम् । 'प्रकाशस्य ज्ञानस्य सतो विद्यमानस्य तदीयतामात्ररूपः घटादिविषयसम्बन्धरूपो विषयता । सामान्यतो विषयता ज्ञानमेव । घटादिविषयता तु घटादिसम्बन्धितत्तद्धीखरूपा । विषयस्याविद्यमानत्वेऽपि विद्यमा नज्ञानरूपस्य विषयत्वस्य 'इदानीं स विषयो ज्ञातः इदानीं तस्य ज्ञान' मित्यादिव्यवहारे कालविशेषावच्छिन्नत्वभानमुपपद्यते । विषयस्य विषयतात्वे तु तस्याविद्यमानत्वे विषयत्वस्य तन्नोपपद्यते । अतो ज्ञानमेव विषयतेति ज्ञापनाय सत इत्यनेन ज्ञानस्य विद्यमानतोक्ता । सम्बन्धसम्बन्धिनोश्राभेदो न दोषाय । सर्वत्र स्वरूपसम्बन्धस्थले तथा कल्पना 'दिति । तथा च ' प्रमेयव' दिति ज्ञानस्य घटे घटत्वप्रकारकत्वेऽपि नोक्तसंशयविरोधित्वम् । ज्ञानरूपविषयता विशेषरूपस्य प्रकारत्वस्य तत्तज्ज्ञानव्यक्तित्वेनैव रूपेण प्रतिबन्धकतावच्छेदके निवेश्यत्वेन 'प्रमेयव' दितिज्ञानव्यक्तेस्तद्व्यक्तित्वेन तत्रानिवेशसम्भवात् । तत्राह - स्वरूपसम्बन्धेत्यादि । स्वं न स्वस्य सम्बन्धः । 'स्वं न स्वीय' मित्यनुभवात् । अथ तत्तद्व्यक्तित्वेन सम्बन्धत्वं, ज्ञानत्वादिना सम्बन्धित्वम्, इति रूपभेदेन भेदं स्वीकृत्य स्वस्यापि स्वप्रतियोगिकसम्बन्धत्वं वाच्यम् । तथापि ज्ञानत्वविशिष्टस्य तद्व्यक्तित्वविशिष्टाभेदे तयोर्भेदासम्भव इति भेदे मिथ्यात्वस्य वाच्यत्वेनानिर्वचनीयवादापत्तिः । अथ तयोरत्यन्तभेदः, तदा भाषान्तरणातिरिक्तविषयतैव स्वीकृता । नन्वास्तामतिरिक्तैव विषयता । उक्तं च शिरोमण्यादिभिः । यदि ज्ञानमेव विषयता, तदा 'घटपटा 'विति समूहालम्बनस्य घटेऽपि पटत्वप्रकारताशालित्वापत्त्या भ्रमत्वापत्तिः । तद्धीरूपाया घटत्वप्रकारताया एव पटत्वप्रकारतात्वेन घटे पटत्वस्य प्रकारत्वसत्त्वात् । अथ यथा समवायः केवल एव सत्तायास्सम्बन्धः । रूपाद्यवच्छिन्नस्तु रूपादेः । तथा निर्विकल्पकज्ञानं केवलमेव विषयता । सविकल्पं तु तत्तत्प्रकारावच्छिन्नम् । तथा समूहालम्बनं घटत्वविशिष्टं सत् घटस्य विषयता । न तु पटत्वविशिष्टम् । यद्विशिष्टं ज्ञानं यस्य विषयता तत् तत्र विशेषणमुच्यते । न चैवं घटत्वविशेषणकज्ञानस्य घटत्वविषयतात्वं न स्यात् । प्रकारविशिष्टस्यैव सविकल्पकस्य विशेष्यं प्रति विषयतात्वात् । प्रकारीभूतघटत्वादिविशिष्टं तु ज्ञानं न घटत्वादावस्ति । स्वविशिष्टस्य स्वस्मिन् सत्त्वासम्भवात् । स्वप्रकारोपलक्षितस्यं स्वप्रकारोपहितस्य वा तस्य विषयतात्वे
For Private and Personal Use Only