________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षबाधोद्वारः]
लघुचन्द्रिका ।
' १३७
तुल्यत्वात् । यत्प्रमेयमित्यादि । सार्वइयं सर्वसंशयविरोधिज्ञानवत्त्वम् । प्रमेयत्वसामान्यधीस्तादृशज्ञानप्रयोजिका । प्रमेयवत्त्वसामान्यधीस्तु स्वयमपि तादृशधीरूपेणेत्याशयेन सोक्ता । सेति । ईशनिष्ठस्य सार्वश्यस्य सर्वांशे लौकिकप्रत्यक्षरूपत्वेन तत उक्तसावश्यस्य वैलक्षण्यसम्भवादिति शेषः । परेत्यादि । परस्योक्तसामान्यज्ञानाधीनसार्वश्यवतो यो ज्ञानविषयो 'घटो न वे 'त्यादिसंशयस्तदनुपपत्तेरित्यर्थः । ज्ञानविषयत्वस्य घटत्वतदभावसहचरितधर्मत्वेन साधारणधर्मवत्ताज्ञानस्य संशयहेतोस्संपादनाय ज्ञानविषय इत्युक्तम् । तावता च धर्मितावच्छेदकप्रकारकधीविषयोक्तधर्मवत्ताज्ञानस्य कारणत्वलाभः । घटविषयः वटत्वविशिष्टविशेष्यकः । घटघटत्वोभयविशेष्यक इति यावत् । नेति । घट इति शेषः । ज्ञाने भासमानेति । ज्ञानात् भासमानेत्यर्थः । तथा च प्रमेयमिति ज्ञानजन्ये प्रमेयवदिति ज्ञाने प्रमेयत्वरूपेण घटत्वस्य घटानुयोगिकवैशिष्टये प्रतियोगितया भानात्तादृशज्ञानं घटे घटत्वप्रकारकमिति भावः । एतेन प्रमेयमिति ज्ञानं न घटे घटत्वप्रकारकम् । घटे भासमानवैशिष्ट्यस्य भासमानं प्रतियोगित्वं प्रकारत्वमिति मतस्यैव स्वीकारेण घटानुयोगित्वविषयतानिरूपिता या वैशिष्ट्यविषयतानिरूपितविषयता तदाश्रयप्रतियोगित्वस्य प्रकारतात्वेनोक्तज्ञाने तदसम्भवात् वैशिष्ट्यतत्प्रतियोगित्वानुयोगित्वानामुक्तज्ञाने विशेष्यतयैव हि भानम् । न तु संसर्गतया । न वा तद्विषयतानां निरूप्यनिरूपकभावः । तथा च तदावापन्नवैशिष्ट्यादिसांसर्गिकविषयताशालिज्ञानस्यैवोक्तसंशयविरोधित्वस्वीकारान्नोक्तदोष इति परास्तम् । शङ्कते-घटत्वे त्यादि । घटत्वज्ञानेति । घटत्वांशे अन्याप्रकारकवटत्वज्ञानेत्यर्थः । अदोषइति । उक्तज्ञानजन्यताया घटत्वांशे अन्याप्रकारकवटत्वप्रकारकज्ञानत्वेनावच्छेदात्तादशजन्यतायाः प्रमेयवदिति ज्ञानेऽभावान्नोक्तदोष इत्यर्थः । ननु, तादृशघटत्वप्रकारकप्रत्यक्षत्वावच्छिन्नं प्रति तादृशहेतुत्वासम्भवेऽपीन्द्रियसंयोगादेरेव जातिविशेषेण हेतुत्वस्यावश्यकत्वात्तजन्यत्वमेव विशेषणमस्तु । किं च । घटत्वांशे अन्याप्रकारकं घटत्वप्रकारकं प्रत्यक्षं परोक्षं च त्वयापि स्वीकार्यमेव । आनुभाविकत्वात् । तथा च तस्यैवोक्तसंशयविरोधिलस्तीकारानोक्तदोष इति चेन्न । प्राचीनतार्किकादिमते समानविषयकनिश्चय एत विरोधि । न तु समानाकारः । अत एव 'अयं जातिमान् ' 'अयं तव्यक्तित्वविशिष्टवान्' 'अयं घटत्वप्रकारकप्रमाविशेष्यान्यासमवेतवा नित्यादिवटत्वनिश्चयस्याप्युक्तसंशयविरोधित्वं तैः स्वीक्रियते । तथा च घटत्वांशे अन्याप्रकारकत्वमनिवेश्य घटत्वप्रकारकत्वनिश्चयत्वेनैव विरोधित्वस्वीकारात् 'प्रमेयव'दिति निश्चयस्य विरोधित्वं दुर्वारम् । अत एव निर्धर्मितावच्छेदकत्वान्नो
For Private and Personal Use Only