________________
Shri Mahavir Jain Aradhana Kendra
१३६
www.kobatirth.org
अद्वैतमञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
न्निकर्षघटितसामन्या अपेक्षणीयत्वात् । एवं च स्मरणादेरिव चाक्षुषादेरपि सामान्यज्ञानात् सामान्याश्रयस्य स्पार्शनादिप्रत्यक्षं जायते इत्याहुः । तत्र नव्यमतस्य सम्यक्त्वात्तदेवाद बघयति --- तच्चेत्यादि । धूमज्ञानात् घूमे घूमत्वप्रकारकज्ञानात् । अवश्यक्लृप्तेति । परोक्षज्ञाने परामर्शादेरेव विशिष्टविषयतानियामकत्वम् । प्रत्यक्षज्ञाने तु सन्निकर्षादेः तत् अवश्यक्लप्तम् । तेनैव निर्वाहः । न च 'जातिमान् घट' इति प्रत्यक्षे अनवच्छिन्नघटत्वादिप्रकारतायामनवच्छिन्नघटत्वादिविषयताकधीरवश्यं नियामिका वाच्या । अन्यथा 'जातिमानि' त्याकारकप्रत्यक्षे घटत्वादौ नियमेनानवच्छिन्ना प्रकारता स्यात् । इन्द्रियसन्निकर्षादेर्नियामकस्य सत्त्वात् । अनवच्छिन्नत्वं च प्रकारत्वानिरूपितत्वमिति वाच्यम् । अनवच्छिन्नत्वविषयतात्वयोर्विशेष्यविशेषणभावस्याविनिगम्यत्वेन हेतुताद्वयापत्त्या संख्यातीतनिर्विकल्पकधीव्यक्तिकल्पनापत्या चोक्तविषयताकत्वेन हेतुत्वे गौरवेण तदपेक्षया लाघवादुक्तप्रकारताशालिप्रत्यक्ष हेतुतावच्छेदकतयेन्द्रियसंयोगादिनिष्टस्य जातिविशेषस्य क्लप्तत्वेन तेनैव निर्वाहात् । ननु, मास्तु निर्विकल्पकम् । चक्षुरादिसन्निकृष्टविशेष्यकधूमत्वादिप्रकारकचाक्षुषादिकमेव सर्वधूमादिचाक्षुषादिहेतुरिति प्राचीनमतमवलम्बनीयम्। तत्राह-नचेत्यादि । पुरोवर्तिनं अव्यवहितम् । व्यवहितं एतदन्यम् । अन्यथा उक्तस्य साधकाभावस्य बाधकस्य चास्वीकारे । सकलधूमेति । ननु, धूमत्वेन सर्वधूमानामनुव्यवसाये भानमिष्टमेव । तत्तद्व्यक्तित्वेन तेषां तत्र भानं तु नापादयितुं शक्यम् । तद्रूपेणोपस्थित्यभावादिति चेन्न । धूमत्वेन सर्वधूमानां तत्र भानापत्तेः कृतत्वात् । तेषां व्यवसाये उपस्थितत्वेनानुव्यवसाये भाने सामग्री - सत्त्वात् सामान्यप्रत्यासक्तिजन्यभिन्नस्यापि एतद्धू मान्य धूमत्वप्रकारकज्ञानस्य सत्त्वे ' तादृशधूमत्वविशिष्टं साक्षात्करोमी'ति प्रत्ययस्योपलक्षणविधया तादृशधूमत्वप्रकारकस्यापत्तेश्च । तच्च नेष्टम् । अनुभवविरोधात् । तदिदमुक्तम् - न चैवमनुभवमात्रेत्यादि । 'इमं धूमं साक्षात्करोमि नान्य' मिति सर्वलोकानुभवः । अत एव धूमप्रत्यक्षवान् पुरुषः 'एतदन्यधूमं साक्षात्करोषि किमिति ष्टष्टो न हि नहीत्येव बूते । ननु, चक्षुराद्यसन्निकर्षे लौकिकविषयत्वाभावेन तस्य न 'साक्षात्करोमीति प्रत्यये भानम् । लौकिकविषयतायास्तादृशप्रत्यये भानादिति चेन्न । सकलधूमादीनां प्रत्यक्षे भानं किमनुमित्यादिकार्यानुरोधात् अनुव्यवसायानुरोधाद्वा । तत्राद्यं पूर्वमेव निरस्तम् । अधुना तु द्वितीयमिति भावात् । न च धूमं जानामी' त्यनुव्यवसाये सर्वधूमभानमिति वाच्यम् । 'इमं धूमं जानामि न त्वेतदन्यमिति व्यवहारस्य सर्वसिद्धत्वेन समाधानस्य तु
For Private and Personal Use Only