SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदे प्रत्यक्षबाधोद्धारः] लघुचन्द्रिका । कारीभूतधूमत्वादिव्यक्तित्वेन स्वसमवायिनिष्ठविषयतासम्बन्धेन हेतुत्वं वाच्यम् । अतीतानागतधूमेषु समवायेनोक्तधूमत्वसम्बन्धेन वा धूमत्वाभावात् । तत्रोक्तविशेप्यतासम्बन्धेन - प्रत्यक्षोत्पत्यसम्भवादुक्तविषयतासम्बन्धेनेत्युक्तमिति वाच्यम् । विषयता हि यद्यप्यतीतादिषु सम्बन्धः, तथापि सविषयकस्यैव । न तु घटत्वादेः । अथ घटत्वस्य स्वसमवाय एव सम्बन्धः तस्याश्रय इत्युच्येत, तथाप्याश्रयस्य सम्बन्धस्स्ववृत्तिविषयतैव वाच्येति तद्दोषतादवस्थ्यम् । अथैवं स्वसमवायिसंयोगादयोऽपि घटत्वादेस्संबन्धा न स्युरिति चेत्। न स्युरेव। अतीतादौ समवायिनं प्रति संयोगस्य वर्तमानेष्वेव सम्बन्धसया क्लप्तत्वात् । विषयताया अतीतादिषु सविषयकं प्रत्येव सम्बन्धतया क्लप्तत्वेन न घटत्वादिसमवायिनं तदृत्तित्वं वा प्रति सम्बन्धत्वमिति भावः । तदुत्तरं धूलीपटले धूमत्वेन व्याप्तिग्रहोत्तरम् । अनुमित्यनुदयेति । 'पर्वतो वहिमानि' त्याद्यनुमित्यनुदयेत्यर्थः । ज्ञानमिति । अत एव 'सा चेन्द्रियसम्बद्धविशेषणता अतिरिक्तवे'ति मणिवाक्यस्य सामान्यप्रत्यासक्तिः इन्द्रियसम्बद्धा इन्द्रियसम्बद्धनिष्ठविशेष्यतानिरूपिता । विशेषणता प्रकारता । यस्याः घटत्वादिरूपप्रत्यासक्तेः । सा तथा । अत्रोक्तदोषादुक्तं अतिरिक्तैवेति । घटत्वादिनिष्ठतादृशप्रकारताशालिज्ञानरूपैववेत्यर्थः । अत्र कल्पे धूमनिष्ठालौकिकविशेष्यतासम्बन्धेन धूमत्वप्रकारकचाक्षुषं प्रति चक्षुस्संयुक्तविशेष्यकधूमत्वप्रकारकचाक्षुषत्वेन धूमनिष्ठेन स्वसमानकालीनज्ञानविषयत्वसम्बन्धेन हेतुत्वम् । चाक्षुषादिसामान्यज्ञानात् स्पार्शनादिरूपस्य सामान्याश्रयज्ञानस्यानुत्पत्तेः । उभयत्र चाक्षुषत्वोक्तिः । धूमत्वज्ञानविशेष्ये चक्षुस्संयोगे नष्टे सकलधूमचाक्षुषानुत्पत्तेविशेष्यकान्तमुक्तम् । एवं त्वाचादिप्रत्यक्षेऽपि बोध्यम् । मानसप्रत्यक्षे तु मनोलौकिकसन्निकर्षाश्रयविशेष्यकसुखत्वादिप्रकारकमिवालौकिकमनस्सन्निकर्षाश्रयविशेप्यकमणुत्वादिप्रकारमपि मानसं स्वविषयसामान्याश्रयविशेष्यके हेतुः । अत एवाणुत्वेन यत्किञ्चिदणूपस्थितौ सकलाणुविशेष्यकमानसमुत्पद्यते इति प्राचः । नव्यास्तु, सामान्यस्य निर्विकल्पकसाधारणज्ञानरूपैवेत्यतिरिक्तत्यस्यार्थः । तथा च धूमत्वज्ञानत्वमात्रं कारणतावच्छेदकम् । अलौकिकमुख्यविशेष्यतासम्बन्धेन धूमनिष्ठेन प्रत्यक्षत्वेन कार्यता । न च कुत्रचिडूमे चक्षुस्संयोगासत्त्वकाले उ. त्पन्नाडूमत्वनिर्विकल्पकादपि सर्वधूमचाक्षुषमुत्पद्येतेति वाच्यम् । सामान्यज्ञानजन्यबहिरिन्द्रियजन्यप्रत्यक्षस्य सामान्यप्रकारतानिरूपितविशेष्यताश्रयाकिञ्चिद्व्यक्यंशे लौकिकविषयताशालित्वनियमेन तादशव्यक्ती कारणीभूतेन्द्रियलौकिकस For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy