________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
अद्वैतमञ्जरी ।
म्भवात् । तत्परत्वात् अद्वैतपरत्वात् । वैदिकं 'एकमेवाद्वितीय'मित्यादिश्रुतिः । पूर्वस्य पूर्वप्रवृत्तप्रत्यक्षादेः । सगुणादिश्रुतेरुपासनाविधिपरत्वेन सगुणत्वादिपरत्वस्याभावात् । मावेऽपि तस्य परमतात्पर्यरूपत्वाभाव इत्यादेः द्वितीयपरिच्छेदे निर्गुणश्रुत्युपपत्तिप्रकरणे वक्ष्यमाणत्वात् परमतात्पर्यविषयार्थकश्रुत्या बाध्यतेति भावः । ननु, सप्रपञ्चादिश्रुतेः प्रपञ्चप्रसक्तिहेतुत्वेनाद्वैतश्रुत्यपेक्षणीयत्वेन न तद्बाध्यता । तत्राह–नायमित्यादि । तथा च निषेधधीनिषेधधर्मिणि प्रतियोगिमत्त्वज्ञानरूपां प्रसक्तिमपेक्षते । न तु तस्याः प्रमात्वमिति मावः । शास्त्ररूपे परप्रमाणेऽपि व्यभिचारमाह-दृश्यते चेति । 'न क्त्वा सेडि'ति परं, सेटः क्त्वाप्रत्ययस्य कित्वनिषेधकं पश्चादुच्चारितं न क्त्वेत्यादिमूत्रम् । पूर्व पूर्वोच्चारितं मृडादीनां परस्य क्त्वाप्रत्ययस्य कित्त्वबोधकम् । अन्यथासिद्धं यथाश्रुतार्थे प्रामाण्यं विनापि सिद्धम् । इति विरोधाभावेन इति हेतोविरोधानिश्चयेन । उपक्रमादिनेति शेषः । परत्वे मृडेत्यादितः परत्वे । अनेन न क्त्वेत्यादिना । अपाकरणं निषेधम् । प्रतिप्रसवार्थ प्राप्त्यर्थम् । तेन न पुनःपदस्यासङ्गतिः । अप्रवृत्तेः प्रवृत्तेरयुक्तत्वात् । अर्थत इति । बोधरूपफलत इत्यर्थः । प्रमाणफलज्ञानस्यैव बाध्यबाधकत्वस्य विचार्यत्वेन यदा बोधजननं तत्काले परत्वमेव बाधकत्वे नियामकम् । ननु, न क्वेत्यादेः पूर्वत्वेऽप्यपवादत्वादेव प्राबल्यम् । तत्राहअपवादापवाद इति । एवकारश्शेषः । तथा च तदपेक्षयापि मृडेत्यादेरपवादकत्वम् । अन्यथा स्वमावसिद्धस्योत्सर्गस्य स्थापनासम्भवादिति भावः । अतः तत्परत्वपरत्वयोनिर्दोषत्वात् । विषय एवेति । 'यत्परश्शब्दस्सशब्दार्थ' इति न्यायात् ॥
॥ इति लघुचन्द्रिकायां अपच्छेदन्यायवैषम्यभङ्गः ॥
कालात्ययापदिष्टः बाधितहेतुः । साध्य इति । अपेक्षणीयेति शेषः । तत्र पक्षे, वह्निविशेपे यत्र वह्नौ प्रतियोगिप्रसिद्धिस्तदन्यवहौ । न बाध्यतेति । स्वसमानाधिक. रणस्वान्यूनसत्ताकात्यन्ताभाववत्वज्ञानस्यैव प्रतियोगिमत्त्वज्ञानविरोधित्वेन न्यूनसत्ताकव्यावहारिकसत्त्वज्ञानं न तात्विकमिथ्यात्ववत्ताज्ञानबाधकमित्यर्थः । मिथ्यात्वस्य तात्विकत्वं तु तात्विकाधिकरणीभूतचिदात्मकाभावघटितत्वम् । ननु, 'नान्तरिक्ष' इत्यादेरिवाप्रसक्तप्रतिषेधोऽस्तु । तत्राह–प्रत्यक्षविषयस्येति । प्रत्यक्षविरोधेन प्रत्यक्षबाधितत्वेन । निषेधवैयर्थ्यमिति । 'अग्नीषोमाभ्यामाज्यभागी यजते 'न तौ पशौ करोति न सोमे अध्वरे' इति वाक्ये न तौ पशौ करोतीत्यत्रैव निषेधविधिः । न तु 'न सोमे अध्वर' इत्यत्र सोमयागे आज्यभागयोरप्राप्तत्वे न तदभावस्य सिद्धत्वेन निषेधविधिवैयर्थ्यात् । तस्मात्तत्रार्थवादत्वमिति दशमाष्टमे स्थितम् । तथा प्रपञ्चे तात्विकत्वस्याप्रसक्तेस्तदभावस्य सिद्धत्वेन तद्वोवक श्रुतिर
For Private and Personal Use Only