________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे विशेषानुमानानि ] लघुचन्द्रिका ।
२०७ प्रतियोगिसत्त्वकाले तत्सत्त्वेऽप्यविद्यादिदोषेभ्यः तदप्रत्यक्षवाद्युपपत्तेः प्रतियोगिजनकत्वेन पराङ्गीकृताभाव एव सः । किं च गवादिनाशकाले गवादौ गोत्वाद्यत्यन्ताभावः परैरपि स्वीक्रियते । अत एव ज्ञायमानगोत्वादेः स्वाश्रयप्रत्यक्षहेतुत्वे अतीतानागतगवादौ व्यभिचारमुद्भाव्य गोत्वादेाने तदङ्गीकुर्वन्ति तार्किकाः । विवृतमेतदधिकं सूत्रमुक्तावलौ नः । अधिकरणम् अनवच्छिन्नाधिकरणतावत् । तेन तदनवच्छेदकावच्छिन्नतदत्यन्ताभाववत्त्वमादाय न सिद्धसाधनम् । परमार्थेत्यादि । मिथ्यातुच्छविलक्षणवृत्तिभेदप्रतियोगितानवच्छेदकत्वं साध्यम् । तेनाबाध्यनिष्ठभेदघटितात् सत्त्वव्यापकमित्युक्तसाध्यात् भेदः । भेद इति । स्वप्रतियोग्यवृत्तिभेद इत्यर्थः । तेन मिथ्यापरमार्थोभयभेदादौ न बाधः । न च तत्रापि परमार्थनिष्ठत्वं नास्ति । मिथ्यात्वात् । अतो व्यर्थमुक्तविशेषणमिति वाच्यम् । तथापि ब्रह्मभिन्ने सर्वत्र परमार्थत्वनिषेधस्य प्रकृतानुमानफलस्य सिद्धये तदावश्यकत्वात् । अन्यथा परमार्थनिष्ठत्वमात्रस्य मिथ्यात्वेन ब्रह्मवृत्तिभेदे साध्यस्योपपाद्यत्वेन प्रपञ्चवृत्तिभेदेऽपि तेनैवोक्तसाध्योपपत्त्योक्तफलासिद्धेः । प्रतियोगिकत्वादिति । ननु, सप्रतियोगिकत्वमात्रस्यैव साधकत्वात् परमार्थसदिति व्यर्थमिति चेन्न । अभावनिष्ठस्यैव प्रतियोगिकत्वस्य लाभार्थं तदुपादानात् । यदि हि सप्रतियोगिकत्वमात्र हेतुः, तदा संयोगादिमात्रनिष्ठस्य तस्य हेतुत्वे संयोगादेरेव पक्षत्वं वाच्यम् । संयोगादेरभावस्य च प्रतियोगितामु प्रतियोगितात्वस्य एकस्याभावेनोभयसाधारणस्य हेतुत्वासम्भवात् । तथा च परमार्थनिष्ठत्वमात्रस्य मिथ्यात्वेनैव साध्योपपत्त्या ब्रह्मान्यस्य सर्वस्यापरमार्थत्वालाभः । सति चोक्तविशेषणे संयोगादिमात्रनिष्ठं सप्रतियोगिकत्वं न लभ्यते ब्रह्मणि निरवयवत्वेन मन्मते संयोगाद्यस्वीकारात् । यदि तु प्रतियोगितापदार्थमात्रे प्रतियोगितात्वमेकं स्वीक्रियते, तदा सप्रतियोगिकत्वमात्रं हेतुः । प्रतियोगिकाभाववदिति । तादृशाभावश्च भेद एव । परमते परमार्थसत्त्वस्य मेयत्वादिवदत्यन्ताभावस्य प्रतियोगितानवच्छेदकत्वात् । मन्मतेऽपि मिथ्यात्वग्राहकमानेनाकाशत्वादेस्तसत्त्वेऽपि तस्य तत्सत्त्वे मानाभावात् । तत्तद्धीविषयत्वव्यक्त्यपेक्षया गुरुत्वाच्च । सद्विलक्षणेति । सद्विलक्षणं यत् स्वप्रतियोगिस्वाधिकरणयोरन्यतरत् , तत्सम्बन्धित्वं साध्यं सदन्यप्रतियोगिकत्वसदन्याधिकरणकत्वयोरन्यतरवत्त्वं पर्यवसितम् । तेन स्वपदार्थाननुगमेऽपि न स्वरूपासियादिकम् । सकलमिथ्येत्यादि । यद्विशिष्टस्य व्याप्यं मिथ्यात्वं तत्त्वादित्यर्थः । मिथ्यात्वं यद्यद्धर्मावच्छिन्नाभाववद्वृत्ति, तत्तद्धर्मभिन्नत्वादिति यावत् । मिथ्यात्वं मिथ्यात्वत्वम् । व्यापकं व्यापकतावच्छेदकम् । तेन मेयत्वादिरूपेण व्यापकत्वमादाय न सिद्धसाधनम् । अप्रतियोगित्वा
For Private and Personal Use Only