________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
२०६
अद्वैतमञ्जरी ।
अस्त्येव । अथ वा प्रतियोगिना यदवच्छिन्नं विशिष्टं तत्र वृत्तिर्यस्य तत्त्वं तन्निरूपितवृत्तिकत्वं पर्यवसितं साध्यम् । यद्यपि यत्किञ्चित्प्रतियोगिनिवेशे सिद्धसाधनम्। स्वप्रतियोगिनिवेशे च पक्षदृष्टान्तसाधारणस्य स्वत्वस्याभावेन साध्यवैकल्यादिकं,तथापि स्वनिष्ठप्रतियोगिताकत्वं स्वसामानाधिकरण्यं चेत्युभयसम्बन्धेन विषयविशिष्टत्वमित्यादि साध्यं बोध्यम् । स्वपदार्थस्तु, न प्रवेश्यते । प्रयोजनाभावात् । अन्यनिष्ठप्रतियोगितादेरन्यदीयसम्बन्धाघटकत्वेनाव्यावर्तकत्वात् । नित्याभावत्वादिति। ध्वंसादौ व्यभिचारान्नित्येति । ब्रह्मणि व्यभिचारादभावेति । सप्रतियोगिकस्वभावेत्यर्थः । प्रतियोग्यशेषेति । अशेषस्वप्रतियोगीत्यर्थः । पूर्वक्षणवृत्तित्वविशिष्टस्य स्वस्याभावरूपो यः प्रतियोगी, तदधिकरणवृत्तिस्सर्वोऽप्यत्यन्ताभावः तन्मात्रवृत्तित्वं च पक्षे सिद्धमतोऽशेषेति । तथा च स्वप्रतियोग्यधिकरणत्वव्यापकं यस्य यस्याधिकरणत्वं, तत्तदन्यत्ववदवृत्तित्वं साध्यं स्वप्रतियोगिकत्वं स्वसामानाधिकरण्यं चेत्युभयसम्बन्धेन विषयविशिष्टं यद्यत्तदन्यावृत्तित्वं स्वावच्छेदकविशिष्टवदवृत्तित्वं स्वनिरूपकत्वं चेत्युभयसम्बन्धेन प्रतियोगिताविशिष्टं यत् तदवृत्तित्वं वा पर्यवसितम् । प्रतियोग्यवच्छिन्नेत्यादि । प्रतियोग्यवच्छेदकावच्छिन्नवृनिकान्यावृत्तीत्यर्थः । अवच्छिन्नवृत्तिकावृत्तीति वार्थः । अवच्छिन्नवृत्तिकत्वे दैशिकवृत्तिनिवेशादेशावच्छिनकालिकवृत्तिके भेदे भेदत्वस्य सत्त्वेऽपि न साध्यवैकल्यम् । तत्र वृत्तिसामान्यस्य निवेशे तु वाच्यत्वत्वादिकं दृष्टान्तः । आद्यपक्षेऽपि दैशिकव्याप्यवृत्तिभेदत्वं दृष्टान्तः । प्रतियोगिजनकति । स्वप्रतियोगिजनकेत्यर्थः । स्वपदार्थः अत्यन्ताभावः । तत्प्रतियोगिजनकाभावस्तद्धटप्रागभावः । तत्सामानाधिकरण्यं चानवच्छिन्नं निवेश्यम् । तेन तादृशाभावानवच्छेदकेन तद्धटध्वंसकालेनावच्छिन्नं तत्सामानाधिकरण्यं तद्धटात्यन्ताभावनिष्ठमादाय न सिद्धसाधनादिकम् । तत्कपालनाशजन्यतटध्वं सत्वे व्यभिचारात् कालीनान्तम् । तत्कपालनाशानाश्यघटव्यक्तिनिवेशे तु तत् नदेयम् । अनादिप्रतियोगिकाभावत्वे व्यभिचारादेतद्धटप्रतियोगिकेति । तद्धटसंयोगत्वादौ व्यभिचारादभावेति । वस्तुतस्त्वतहटेति । एतत्कपालनाशनाश्यघटेत्यर्थः । एवं च तद्धटप्रागभावकालावच्छिन्नं सामानाधिकरण्यमादाय सिद्धसाधनात् सामानाधिकरण्ये अनवच्छिन्नत्वं देयम् । तद्धटध्वंसत्वे व्यभिचारात् कालीनान्तम् । तद्धटस्य समवायिनि तदत्यन्ताभावास्वीकारे त्वनवच्छिन्नत्वं न देयम् । ननु, स्वप्रतियोगिसमानाधिकरणवृत्तित्वमात्रसाधनेऽपीष्टसिद्धेः किमिति जनकामावनिवेश इति चे. दयं तत्र भावः । घटादेरुत्पत्तिपूर्व तत्समवायिनि तदभावः परेणापि स्वीक्रियते । तस्य चात्यन्ताभावान्यत्वे तद्देशकालावच्छिन्नवृत्तिकत्वे च गौरवान्मानाभावात् ।
For Private and Personal Use Only