________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०८
अद्वैतमञ्जरी ।
त् प्रतियोगितानवच्छेदकत्वात् । न च समानाधिकरणान्तं व्यर्थमिति वाच्यम् । साधनवैकल्यवारकत्वात् । न च मेयत्वं ब्रह्मत्वं वा दृष्टान्तोऽस्त्विति वाच्यम् । मन्मते मेयत्वस्यापि तदभावात् ब्रह्मत्वस्य परमते घटादिनिष्ठात्यन्नाभावप्रतियोगितावच्छेदकत्वात् । दैशिकविशेषणतासम्बन्धावच्छिन्ना हि प्रतियोगिता हेतौ साध्ये च निवेश्या । अन्यथा स्वरूपासिद्धिबाधयोरापत्तेः । यदि च ब्रह्मत्वे परमते तन्न स्वीक्रियते।मानाभावात, तदा अधिकरणान्त न देयम् । न च स्वरूपासिद्धिरिति वाच्यम् । मिथ्यात्वत्वम्य तत्तद्धीविषयत्वाद्यपेक्षया गुरुत्वेनोक्तावच्छेदकत्वाभावात् । न चैवं प्रपञ्चे मिथ्यात्वाम्वीकारेऽप्युक्तसाध्योपपत्तिरिति वाच्यम् । ब्रह्मतुच्छोभयान्यवृत्त्यत्यन्ताभावप्रतियोगितावच्छेदकं यद्विशिष्टस्य व्यापकतावच्छेदकं तदन्यत्वस्य साध्यत्वात् प्रपञ्चेमिथ्यात्वास्वीकारे मिथ्यात्वत्वसमनियतलघुधर्मस्यावच्छेदकत्वात् । तस्य च मिथ्यात्वव्यापकतावच्छेदकत्वेन मिथ्यात्वत्वे साध्यानुपपत्तेः । दृश्यत्वं दृक्प्रतियोगिकत्वविशिष्टं व्यावहारिकं तादात्म्यम् । प्रपञ्चनिष्ठस्य ब्रह्मतादात्म्यस्य ब्रह्मण्यपि सत्त्वेन बाधादाद्यं विशेषणम् । ब्रह्मणि ब्रह्मणः प्रातीतिकतादात्म्ये बाधादन्त्यम् । न च तयोः ब्रह्मवृत्तित्वं मिथ्येति साध्यसत्त्वान्न वाध इति वाच्यम् । तथापि सर्वदृश्यमिथ्यात्वसिद्धिरूपस्य प्रकृतानुमानफलस्य उक्तविशेषणाधीनत्वात् तदभावे परमार्थवृत्तित्वमिथ्यात्वनैव साध्यसिद्ध्योक्तफलालाभात् स्वरूपासिद्धेश्च । अभिधेयमात्रवृत्तित्वात् अवाच्यावृत्तित्वात् ब्रह्मावृत्तित्वादितियावत् । पक्षभेदादाद्यानुमानाद्भेदः । ब्रह्मान्यवृत्तित्वविशिष्टं वा हेतुः । रूप्यादिपदानां प्रत्येकमभिधेयत्वानां तादात्म्येन तत्तद्व्यक्तित्वेन हेतुता तव्यक्तित्वेन पक्षता चेति वा ! एतेन शब्दार्थभेदाच्छ क्तिरूपाभिधाया भेदात् सर्वाभिधेयासङ्ग्रह इत्यपास्तम् । दृश्येतरेत्यादि । गगनाद्यवृत्तिपदार्थेषु सापसामानाधिकरण्यवाटेनव्याप्त्यभावात् धर्मेति । तदघटितव्याप्तेः साध्यत्वे तु तन्न देयम् । शुक्तिरूप्यादावंशतः सिद्धसाधनादुभयासिद्धमिति । असद्भिन्नत्वेनोभयवादिसिद्ध पक्ष: । आधारत्वस्य ब्रह्मणि स्वीकारेऽपि तत्र न व्यमिचारः । धर्माधिकरणत्वाभावम्यापि मन्मते तत्र स्वीकारेण तस्य पक्षसमत्वात् । प्रतियोग्यवच्छिन्न इत्यादि । घटादिर्घटत्वाद्यभावस्यानवच्छिन्नाधिकरणतावानित्यर्थः । तेन घटादेः स्वनाशकालाद्यवच्छेदेन घटत्वाद्यभाववत्त्वेऽपि न सिद्धसाधनम् । समवायादिना घटत्वादेरभावस्य दैशिकविशेषणतयाधिकरणत्वं निवेश्यम् । कालवत् घटादिभिन्नकालवत् । तेन पक्षदृष्टान्तभेदः । वस्तुतः पक्षतावच्छेदकान्यरूपेण पक्षस्य दृष्टान्तमध्यपातेऽपि न क्षतिः । प्रत्युत कालविधया पक्षस्यापि साध्यवत्त्वेन पराभ्युपगतत्वप्रदर्शनं प्रकृतोपयुक्तम् । किं तु घटत्वति । न च 'परमार्थसद्धटो नेत्यादि
For Private and Personal Use Only