________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे विशेषानुमानानि ]
लघुचन्द्रिका।
२०९
प्रतीतेः परमार्थसत्त्वोपहिते तद्भेदप्रकारत्वान्नेदं युक्तमिति वाच्यम् । तस्याः घटत्वागुपहितप्रतियोगिकभेदविषयकत्वेऽपि परमार्थसत्त्वोपहितप्रतियोगिकभेदाविषयकत्वात् । न च परमार्थसत्तादृशघटो नेति प्रतीतेः परमार्थसत्त्वोपहितनिष्ठा घटत्वाद्यवा च्छिन्नप्रतियोगिता विषय इति वाच्यम् । साम्प्रदायिकतार्किकैस्तदस्वीकारात् । उक्तं हि तैः 'प्रतियोग्यंशे प्रकारतावच्छेदकता यादृशविशिष्टधर्मपर्याप्ता प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणत्वेनापि तादृशधर्म एव भाति । अत एव वह्नित्वं पर्वतवृत्तिधूमवन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकं ने ति प्रतीतेः पर्वतवृत्तित्वाविशेषितधर्मावच्छिन्नप्रतियोगिताकभेदविषयकत्वासम्भवाव्यभिचारधीकालेऽपितादृशधीसम्भवेन तस्याः नानुमितिहेतुत्व'मिति। अथवा आत्मत्वं परमार्थप्रतियोगिकभेदकूटान्तर्गतया कयापि व्यक्त्या न व्याप्यम् । परमार्थवृत्तित्वात् परमार्थत्ववदित्यत्र तात्पर्यम् । परमार्थत्वे परमार्थप्रतियोगिकभेदत्वविशिष्टस्य व्याप्यतासत्त्वेऽपि परमार्थीयतत्तद्भेदव्यक्तित्वावच्छिन्नं प्रति व्याप्यता नास्ति । तस्य स्वप्रतियोगिनि परमार्थे अभावादिति परमार्थभेदवृत्तिः य उभयावृत्तिधर्मः तद्विशिष्टं प्रति व्याप्यत्वस्याभावरूपं साध्यं तत्रास्त्येव । आत्मान्यपरमार्थस्वीकारे तु तद्भेदव्यक्तिव्याप्यमात्मत्वमिति तत्र तत्त्वाभावसाधनं परस्यानिष्टमिति ध्येयम् । मिथ्यात्वेन प्रपश्चान्न भिद्यत इति। मिथ्यात्वहेतुकस्य प्रपञ्चभेदवत्त्वस्याभाववदित्यर्थः । तादृशभेदवत्त्वं च प्रपञ्चभेदव्याप्यमिथ्यात्वप्रकारकस्वविशेष्यकप्रमाजन्यानुमितिविषयस्य प्रपञ्चभेदस्याश्रयत्वम् । यत्रोक्ताश्रयत्वं स्थाप्यं, सः स्वपदार्थः । 'निर्धूमवान् धूमेन वहिमानय मिति वाक्यजन्यज्ञानं न प्रमा । अतः प्रमाघटितमेव हेतुत्वं तृतीयादिविभक्त्यर्थः । तथा च मिथ्यात्वे प्रपञ्चभेदव्याप्तरबाधितत्वलाभात् मिथ्यात्वव्यापकं यन्मिथ्यात्वसमानाधिकरणं, तत्त्वेन रूपेण प्रपञ्चभेदस्यात्यन्ताभावः पर्यवसितसाध्यम् । मन्मते तादशरूपविशिष्टस्य प्रपञ्च भेदस्याप्रसिद्धावपि घटत्वेन पटस्येवोक्तरूपेणोक्तभेदस्याभावो नाप्रसिद्धः । व्यवहारेत्यविवक्षितः । स्वस्येति । यत्र साध्यं स्थाप्यं, तस्येत्यर्थः । उभयोरिति । तस्य प्रपञ्चस्य चेत्यर्थः । अन्तिमपक्षस्येति । आद्यपक्षस्यासम्भवेनेत्यादिः । तेनाद्यपक्षासम्भवानुक्त्या न न्यूनता । परमतेऽपि पक्षे मिथ्यात्वस्वीकारात् तत्राद्यान्त्यपक्षयोरसम्भवः । तयोः सम्भवे तु प्रपञ्चभिन्नेऽपि पक्षे उक्तविशिष्टरूपेण प्रपञ्चभेदस्याभावसम्भवः । मिथ्यात्वसमानाधिकरणत्वरूपविशेषणाभावादिति भावः । मध्यमेति । मिथ्यात्वसमानाधिकरणत्वविशिष्टस्य प्रपञ्चभेदस्याश्रयेऽपि पक्षे उक्तविशिष्टरूपेण न प्रपञ्चभेदः । प्रपञ्चभेदे मिथ्यात्वव्यापकत्वरूपविशेषणाभावात् । प्रपञ्चस्सत्यः पक्षो मि
For Private and Personal Use Only