________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी।
थ्येति खोकारे तूक्तविशिष्टरूपेण पक्षे प्रपञ्चमेदस्य सत्त्वान्न साध्यपर्यवसानम् । अत एव स्वस्य मिथ्यात्वं प्रपञ्चस्य सत्यत्वमिति पक्षः साध्यपर्यवसानानु. पयुक्तत्वात् पूर्वं न विकल्पित इति भावः । प्रथमेति । दृष्टान्तस्योभयसम्मतत्वापेक्षणे मन्मतेऽप्यन्त्यपक्षस्यासम्भवादुभयमतेऽपि मध्यमपक्षासम्भवात् प्रथमपक्षेणैव तत्र साध्यसिद्धिः । दृष्टान्तस्य प्रतिवादिमात्रसम्मतत्वापेक्षणे तु चरमपक्षणापि तत्र साध्यसम्भव इति प्रथम इव चरमेऽपि मिथ्यात्वसामानाधिकरण्यरूपविशेषणाभावादुक्तरूपेणाभावस्य सम्भवादिति ध्येयम् । परमार्थसत्त्वसमानाधिकरणत्वादिति । न च परमार्थसत्त्वस्यैव तादात्म्येनैव हेतुत्वसम्भवादन्यांशवैयर्थ्यमिति वाच्यम् । नव्यमते धूमप्रागभाववदवैयर्थ्यात् । आस्तां वा तस्यैव हेतुत्वे तात्पर्यम् । न च स्वरूपासिद्धिरिति वाच्यम् । अबाध्यत्वव्यापकयत्किश्चिद्वीविषयत्वस्यैव परमार्थसत्त्वरूपत्वेन तस्यैव पक्षत्वात् । श्रुतितात्पर्य विषयत्वेति । श्रुतिनिष्ठशक्त्यधीनप्रमाविषयत्वेत्यर्थः । स्वर्गसाधनयागादिनिष्ठे तादृशधीविषयत्वे साध्यवैकल्यात् पारमार्थिकत्वेनेति । अबाध्यत्वव्यापकेत्यर्थः । स चोक्तविषयत्वविशेषणम् । तादृशविषयत्वं च परमते 'विश्वं सत्य' मित्यादिश्रुतिजन्यधीविषयत्वम् । मन्मते तु 'तत्त्वमसी'त्यादिश्रुतिजन्यधीविषयत्वम् । पक्षदृष्टान्तयोरभेदस्तु न दोषः । पक्षतादृष्टान्ततावच्छेदकभेदात् । एतदित्यादि । पटान्तरप्रतियोगिकात्यन्ताभावे सिद्धसाधनात् पक्षे एतदिति । तन्त्वन्तरनिष्ठत्वस्य सिद्धत्वात् साध्येऽप्येतदिति । पटान्तरप्रागभावे व्यभिचारात् हेतावेतदिति । पटेति व्यक्तिविशेषपरिचायकम् । न तु हेतौ प्रविष्टम् । पक्षत्वे विति । तस्य पक्षत्वे हेतावपि तत्पट एव निवेश्यः । अन्यथा स्वरूपासिद्धेः । तथा चानादीति व्यर्थत्वान्न देयमिति भावः । उद्देश्यत्वादिति । न चैवं पक्षे एतदिति व्यर्थमिति वाच्यम् । त. व्यक्तिप्रतियोगिकात्यन्ताभावत्वेनैवास्मिन् कल्पे पक्षत्वेन पटत्वेनानिवेशात् । व्यधिकरणेति । एतत्पटत्वान्येत्यर्थः । तेनोभयत्वाद्यवच्छिन्नाभावमादाय न सिद्धसाधनम् । ननु, तत्पटप्रागभावस्तत्तन्त्ववछिन्नचैतन्याविद्ययोरेव वर्तते । न तु तत्तन्तौ । सिद्धान्ते तस्य तत्पटानुपादानत्वात् । तथा च तत्र तत्तन्तु निष्ठत्वाभावाव्यभिचारस्तत्राह-तन्तुशब्देनेति । तत्तन्तुशब्देनेत्यर्थः । पटोपादा नेति । तत्पटोपादानेत्यर्थः । प्रागेवेति । चित्सुखाचार्यास्त्वित्यादिग्रन्थे इति शेषः । यद्वेत्यादि । अयंशब्दार्थस्य विवरणं-समवायेत्यादि । समवायावच्छिन्नप्रतियोगिताक इत्यर्थः । एतत्पटेति । एतत्पटत्वावच्छिन्नप्रतियोगिताकेत्यर्थः । तत्तंन्तुनाशजन्ये तत्पटनाशे व्यभिचाराद्धेतावत्यन्तेति । नाशानाश्यपटव्यक्तिनिवेशे तु तन्न
For Private and Personal Use Only