SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्र०दे विशेषानुमानानि] www.kobatirth.org लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २११ 1 देयम् । वस्तुतस्तु, अत्यन्ताभावत्वान्यभागवैयर्थ्यापत्त्या अत्यन्ताभावत्वं तत्पटव्यक्त्यभावत्वं चेति हेतुद्वयम् । आद्ये तत्तन्तुत्वात्यन्ताभावस्यापि पक्षसमत्वेन तत्रा - व्यभिचारात् । तत्पटपदस्य नाशानाश्यपटव्यक्तिपरत्वात्तन्तुनाशजन्ये पटनाशे द्वितीयेन व्यभिचारः । अव्याप्येत्यादि । अव्याप्यवृत्तित्वमादाय सिद्धसाधनादेर्वारणाय सत्यन्तम् । उक्तेति । ब्रह्मप्रमान्याबाध्येत्यादिपरकीयाद्यानुमानोक्तेत्यर्थः । स्वसमानाधिकरणेत्यादि । सामानाधिकरण्यं प्रतियोगिता चेत्युभययम्बन्धनात्यन्ताभावः साध्यः । उक्तपक्षतावच्छेदकसमानाधिकरणधर्मे स्वप्रतियोगितावच्छेदकत्वं स्वाश्रयनिष्ठाधिकरणतानिरूपकतावच्छेदकत्वं चेत्युयसम्बन्धेनात्यन्ताभावः साध्य इति तु निष्कर्षः । तेन स्वपदार्थस्य पक्षदृष्टान्तोभयसाधारण्याभावेन बाधसाध्यवैकल्यादेर्नापत्तिः । न वोभयत्वावच्छिन्नाभावादिकमादाय सिद्धसाधनम् । व्यभिचार इति । तस्य ब्रह्मस्वरूपत्वेनाधिकरणाप्रसिद्ध्या नोक्तसाध्यवत्त्वं विश्वाभावत्वविशिष्टरूपेण तु हेतुमत्त्वं चेति भावः । शुद्धे ब्रह्मणि व्यभिचारः, विश्वाभावत्वोपहिते वा । नाद्यः । तत्र हेत्वभावादित्याह - तस्येति । अभावादिति । एवं चाभावमात्रस्य ब्रह्मणि व्यभिचारित्वात् आत्मत्वप्रतियोगिकत्वविशेषणं दत्तमिति भावः । मिथ्यात्वेन ज्ञाननिवर्त्यत्वेन । अत्यन्ताभावप्रतियोगितया स्वाधिकरणब्रह्मनिष्ठात्यन्ताभावप्रतियोगितया । नन्वेवं विश्वस्य सत्यतापत्तिः । विरुद्धयोरेकनिषेधे अपरस्य सत्यतानियमादिति शङ्कते न चेति । अत्यन्ताभाव इति । बोध्य इति शेषः । मिथ्या वासिद्धिरिति । निषेध्यस्यात्यन्ताभावस्य प्रतियोगिनि मिथ्यात्वासिद्धिरित्यर्थः । भावगतेति । प्रतियोगिगतेत्यर्थः । मिथ्यात्वे मिथ्यात्ववादे । एकदेशेत्यादि । दाशकसम्बन्धावच्छिन्ना किञ्चिदवच्छिन्ना वृत्तिर्यस्य तदन्यत्वं विवक्षितमित्यर्थः । घटादेः कपालाद्यवच्छेदेन कालवृत्तित्वादाद्यमवच्छिन्नान्तम् । बाध इति । उक्तप्रतियोगित्वाभाववत्युक्तप्रतियोगित्वसाधने बाध इत्यर्थः । अपास्तमिति । न च 'तन्तुषु दशासुन पटः । किं तु दशान्यभागे' इत्यादिप्रतीतेः पटादेर्देशावच्छिन्नवृत्तिकत्वस्योक्तरूपस्य सत्त्वात् अयुक्तमिति वाच्यम् । उक्तप्रतीतेः प्रमात्वे 'एकतन्तौ पटे न पटत्वम् । किं तु सर्वेषु पटारम्भकतन्तुष्वित्यादिप्रतीतेरपि प्रमात्वापत्तेः । यदि चा'थं पटः सर्वेभ्य एतेभ्यस्तन्तुभ्यो जातः । न त्वेकतन्तुने' ति द्वितीय प्रतीतेर्विषय इत्युच्यते, तदा प्रथमप्रतीतेरपि दशा भागावच्छिन्नात् तत्तन्तुसंयोगान्न पटो जातः । किं तु तदन्यभागावच्छिन्नादिति विषय इति विभावनीयम् । न च तथापि कपालादौ तन्नाशकालावच्छेदेन घटादेरसमवायादन्यकालावच्छेदेनैव समवायात्तस्यापक्षत्वापत्तिरिति वाच्यम् । यदधिकरणनिरूपिता वृत्तिर्निवेश्या, तस्याधिकरणस्य नाशप्रागभाव 1
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy