________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
अद्वैतमझरी ।
कालीनेनावच्छेदकेनावच्छिन्ना वृत्तिर्यस्य तदन्यत्वस्य निवेशात् । केवलान्वयीति। अत्यन्ताभावाप्रतियोगीत्यर्थः । अधिष्ठानचिद्रूपात्यन्ताभावस्यात्यन्ताभावप्रतियोगित्वे मानाभावात्तस्य केवलान्वयिनः प्रतियोगित्वमनात्ममात्रेऽस्तीति बोध्यम् । पदार्थत्वात् ब्रह्माविषयकविषयत्वात् । ब्रह्माणि व्यभिचारादविषयकान्तम् । स्वमते विति । आकाशादेः स्वमते वृत्तिमत्त्वात् उक्तानुमानात् पूर्व साध्यवत्त्वेनासिद्धत्वात् स्वमते स न दृष्टान्तः । तथा च नित्यद्रव्यान्यदिति न देयमिति भावः । शुक्तिरूप्येति । ननु, शुक्तिरूप्यात्यन्ताभावस्य शुक्त्यवच्छिन्नचिद्रूपतदधिष्ठानरूपत्वेन घटादिनिष्ठात्यन्ताभावप्रतियोगित्वान्न केवलान्वयित्वमिति चेन्न । विशिष्टचितः केवलचिदनन्यत्वपक्षे दोषाभावात् । तत्पक्षे हि शुक्तिरूप्याद्यधिष्ठानत्वं शुद्धचित्येव । तदवच्छेदकं शुक्त्यादिकमिति स्वीकारात् । स्वरूपेणेति । उक्तेति शेषः । तद्वैलक्षण्येति । अत्यन्तासद्वैलक्षण्येत्यर्थः । परिहारात् उक्तप्रयोजकाभावपरिहारात्। निवृत्तिप्रतियोगित्वमात्रं भावाद्वैतमते पञ्चमप्रकाराविद्यानाशे नासद्वैलक्षण्यसाधकम् । उत्पत्तिप्रतियोगित्वमनादौ न तत्साधकम् । अत उत्पत्त्यादिविशेषप्रतियोगित्वं तत्साधकं बोध्यम् । आत्माप्रतियोगिकत्वादिति । न चाप्रतियोगिकत्वमात्रस्य ब्रह्मनिष्ठस्य साधकत्वसम्भवेनात्मेति व्यर्थमिति वाच्यम् । ब्रह्मणो दृश्याभावत्वेन सप्रतियोगिकत्वात्तन्मिथ्यात्वस्य प्रकृतानुमानपूर्वमसिद्धत्वात् परं प्रति दृष्टान्तत्वासम्भवात् स्वनिष्ठप्रतियोगित्वानिरूपकत्वसम्बन्धेनात्मन एव हेतुत्वसम्भवाच्च । अदोपत्वादिति। साध्याभाववत्त्वांशे संशयरूपस्य व्यभिचारज्ञानस्य व्याप्तिग्राहकतर्काभावसहकृतस्यैव व्याप्तिग्रहविरोधित्वम् । न तूक्ततर्कसहकृतस्य । सन्दिग्धसाध्यवत्पक्षकानुमानमात्रलोपापत्तेः । प्रकृते च तर्का वक्ष्यन्ते । तथा च नतद्विरोधीति भावः । वहवश्चेति। तथा च बहूनामप्रामाण्यकल्पनामपेक्ष्य परकीयाल्पहेतुष्वेवाप्रामाण्यं युक्तमिति भावः।
॥ इति लघुचन्द्रिकायां विशेषतो मिथ्यात्वस्यानुमानानि ॥ जगदाहुरिति । सत्यभिन्नं जगदिति मतस्यासुरत्वोक्तेः सत्वं जगदिति मतं शिष्टानामित्यभिमानः । कर्मसद्भवत्वादिति । 'यो वै धर्मः सत्यं चैत'दित्यादिश्रुतिषु धर्मरूपे कर्मणि सत्यपदप्रयोगात् प्रकृतेऽपि सः । सतो ब्रह्मणो वेदाद्वा भव इति व्युत्पत्तेरिति भावः । 'सत्यं ज्ञान'मित्यादिश्रुतेरिव 'विश्वं सत्य'मित्यादिश्रुतेरपि स्वार्थे तात्पर्यम् । 'आपश्च न प्रमिणन्ती'त्यस्योपपत्तिरूपस्य तात्पर्यग्राहकत्वात् । व्यापनशीला देवता अपि विश्वं सत्यमिति प्रमिण्वन्ति तात्त्विकतया जानन्तीति हि तदर्थ इति परेषामक्तिमन्यथाकर्तुं चनेत्येतत्पदद्वयतया व्याचष्टे-चनेत्येतदिति । सिद्धमिति । यथा द्वितीयाष्टकस्थस्यैव ददाति मह्यं यादुरीत्यादेर्यादुरीत्यत्राध्यापकसम्प्रदायसि
For Private and Personal Use Only