________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे आगमबाधोद्धारः ]
www.kobatirth.org
लघुचन्द्रिका
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२१३
ऐक्ये सत्यपि दुरी आदरवती या मह्यं ददातीति भिन्नपदत्वेन व्याख्यानं तथा प्रकृतेऽपीति भावः । अध्याहार इति । न चाङो अभिव्याप्त्यर्थकत्वसम्भवादध्याहारो न युक्त इति वाच्यम् । अभिव्याप्तेः कर्मालाभेन साकांक्षत्वापत्तेः । न च 'यचिकेत तदभिव्याप्य सत्यं भवेदित्यर्थ इति वाच्यम् । यद्योगप्राथम्यबलादेव तादृशालाभेनाको व्यर्थत्वापत्तेः । स्पाईं वसु अभिव्याप्य जेतेत्यर्थस्तु न युक्तः । अतिव्यवधानेनासक्त्यभावात् । यथा तथेति । यद्यपि दूष्ये न्यायामृते ग्रन्थे याथातथ्यत इति ईशावास्योपनिषद्गतवाक्यं घृतं तथाप्यर्थतौल्येन श्रुत्यन्तरस्थं यथातथीत धृतम् । पूर्वसृष्टेति । ननु याथातथ्येत्यस्य नायमर्थो युक्तः । तथाशब्दस्यैवाभावात् । किं तु यथार्थं तु यथातथमित्यमरोक्तेः यथातथशब्दस्य सत्यार्थकत्वेन स्वार्थिकतद्धितान्तत्वेन च सत्यार्थकत्वमिति चेन्न । तथ्यशब्दस्यापि सत्यार्थकत्वेन याथेत्यस्य व्यर्थत्वापत्तेः । प्रत्ययस्य स्वार्थिकत्वे व्यर्थत्वापत्तेश्च । तस्मात् भावार्थकस्तद्धितः । ल्यब्लोपपञ्चम्यास्तसिल्प्रत्ययः । तथा च पूर्वं सृष्टा अर्था यथा तथाभावं प्रतिसन्धाय व्यदधादिति वाक्यार्थः । किं च 'कविर्मनीषी परिभूः स्वयंभू'रिति पूर्वभागस्य त्वन्मते वाक्यार्थेऽनुपयोगः । मन्मते तु यतः कविः पूर्वक्रान्तं सर्वं दृष्टवान् यतश्च मनीषी मनसा ईष्टे ऊहापोहकुशलः, यतश्च पूर्वसृष्टविरुद्धमिच्छतां परिभवसमर्थः, यतश्च स्वयमन्यनैरपेक्ष्येण जगद्भवनसमर्थः, ततो हेतोः पूर्वसृष्टभावं प्रतिसन्धाय जगत्सृष्टवानिति सकलं वाक्यं युक्तार्थकम् । यथातथार्थानिति वाक्येऽपि त्वन्मते अथेति पदं व्यर्थम् । तथाशब्दस्य सत्यार्थकत्वेऽपि यथाशब्दस्य तदभावात् । तथाशब्दस्य तु तथ्यपदप्रकृतित्वेन तथागतेत्यस्मिन् बौद्धनामनि तथाशब्दस्य सत्यार्थकतायाः प्रा माणिकैरुक्तत्वात् । अनुवादकतयेति । उपलक्षणमेतत् । अद्वैतश्रुत्यनुमानादिविरु
1
त्यपि बोध्यम् । न तत्परत्वमिति । प्रत्यक्षादिसिद्धव्यावहारिकसत्त्वानुवादकत्वसम्भवे अद्वैतश्रुत्यादिविरुद्धार्थविश्वतात्त्विकत्वपरत्वकल्पना न युक्ता । न हि विश्वस्य तात्त्विकत्वं विना किञ्चिदनुपपन्नमिति भावः । सर्वनामत्वात् बुद्धिविषयविशिष्टशक्तत्वात् । तथा च यथा तदादेः बुद्धिविषयविशिष्टशक्तत्वेऽपि घटत्वादि विशेषरूपं स्वरूपतो विषयीकुर्वति शाब्दानुभवे हेतुत्वम् । अन्यथा तादृशसंशयादिनिवृत्तिस्तादृशबोधान स्यात् । तथा विश्वशब्दस्यापि घटत्वादिकं स्वरूपतो विषयीकुर्वति बोधे हेतुत्वम् । अत एव 'सर्वेभ्यो दर्शपूर्णमासा' वित्यादौ पुत्रत्वादिनानाधर्माणामुद्देश्यतावच्छेदकत्वेनोद्देश्य भेदेऽप्येकपदार्थत्वान्न वाक्यभेद इति वार्तिकादावुक्तम् । कथमिति । न च घटाद्यंशे प्रत्यक्षेण सत्त्वप्राप्तावपि परमाण्वाद्यंशे तदप्राप्त्या नानुवादकत्वमिति वाच्यम् । तावतापि विध्यनुवादवैषम्यस्यापत्तेरेकस्यैव वि