________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
२०२
www.kobatirth.org अद्वैतमञ्जरी ।
न्येत्यादि । तद्धटभेदनिष्ठाभावत्वे बाधादतिरिक्तान्तम् । समवायेन तद्धटस्य योऽत्यन्ताभावः तन्निष्ठाभावत्वे बाधादेतद्धटसमानाधिकरणेति । एतद्धटसमवायिनिष्ठेत्यर्थः । कपालरूपादिनिष्ठे घटसमानाधिकरणत्वे बाधात्तद्धटप्रतियोगिकाभावेति । हेतौ च तद्धटभेदत्वे समवायावच्छिन्नतद्धटात्यन्ताभावत्वे पटात्यन्ताभावत्वे मेयत्वादौ च व्यभिचारात् क्रमेण विशेषणानि सार्थकानि । प्रागभावत्वे साधनवैकल्यात् दृष्टान्ते एतद्धटेति । शुद्धसाध्यस्यैतद्धटासमानकालीनतत्तव्यक्तित्वेऽपि सत्त्वात्तत्रोपाध्यसत्त्वादाह-साधनावच्छिन्नेति । एतद्धटेत्यादि । एतद्धटप्रतियोगिकं यदेतद्धटस्य जन्यं जनकं च तयोरन्यतरत् एतद्धटस्य प्रागभावो ध्वंसश्च । तन्मात्रवृत्तित्वस्येत्यर्थः । साध्यसमव्याप्तिरक्षार्थ मात्रेति । विषमव्यापकस्याप्युपाधित्वम् । साध्यव्याप्यत्वस्य दूषकतायामनुपयोगादिति शुद्धमते तु तत् न देयम् । सन्देह इति । एतद्धटे मिथ्यात्वसन्देहकाले तत्समवायिनि समवायेन तदत्यन्ताभावस्य सन्देहात् पक्षेऽत्यन्ताभाववृत्तित्वसन्देहः । तद्धटध्वंसप्रागभावकाले च तद्धटसमवायिनि समवायावच्छिन्नतद्धटात्यन्ताभावो नाभ्युपेयते । 'तद्धटो नास्तीतिबुद्धेस्तद्धटविरोधिप्रागभावाद्यवगाहित्वात् । अत एव यत्किञ्चिद्धटप्रागभावादिमति घटवति 'घटो नास्तीति बुद्धेर्नापत्तिः । प्रतियोगिविशेषणघटत्वादिविशिष्टं प्रति विरोधित्वेनैव संसर्गाभावस्याभावबुद्धौ मानात् । अत एव तादृशबुद्धेर्घटादिमत्ताधीविरोधित्वम् । घटादिविरोधिमत्ताज्ञानस्यैव तद्विरोधित्वात् । घटत्वाद्यवच्छिन्नात्यन्ताभावत्वरूपेणापि केवलेनाभावस्य ज्ञानं न तद्विरोधि वक्तुं शक्यम् । अव्याप्यवृत्तितादशाभाववत्त्वज्ञानस्य तदापत्तेः । किन्तूक्तविरोधित्वविशिष्टेन तद्रूपेणाभावज्ञानम् । वस्तुतस्तूक्तविरोधित्वाविषयकघटाद्यवच्छिन्नाभावबुद्धेरपि तद्विरोधित्वादव्याप्यवृत्तित्वज्ञानस्याप्रामाण्यज्ञानवदुत्तेजकत्वेनोक्तापत्तेरभावात् । घटध्वंसादिकाले जायमानतादृशबुद्धेविरोधित्वानुरोधेन घटत्वाद्यवच्छिन्नात्यन्ताभावविषयकत्वस्यावश्यकत्वम् । तथा च पक्षस्य तद्धटासमानकालीने तद्धटात्यन्ताभावे निश्चयेन पक्षे साधनस्योपाध्यभावस्य च निश्चयादुपाघेस्साधनाव्यापकत्वं निश्चितमेव । न चान्यतरवृत्तित्वस्य मात्रार्थाविशेषितस्योपाधित्वपक्षे साधनाव्यापकत्वं नेति वाच्यम्। तस्यापि तद्धटात्यन्ताभावत्वे साधनाव्यापकत्वात् । न चैवं तद्धटसमानाधिकरणतद्धटात्यन्ताभावत्वतद्धटाभावत्वयोः साध्याव्यापकत्वमिति वाच्यम् । तयोः साध्यवत्त्वानिश्चयात् । सन्दिग्धेति । यत्र व्यभिचारशङ्काविरोधी तर्कोऽवतरति, तत्र व्यभिचारधीरूपकार्याक्षमत्वात् सन्दिग्धोपाधिर्न दूषणम् । तदनवतारे तूक्तकार्यक्षमत्वात् स दूषणमेवेति भावः । संयोगेत्यादि । न च समवायेन तद्धटवति वृत्तेनिवेशान्नोक्त
For Private and Personal Use Only