________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे विशेषानुमानानि]
लघुचन्द्रिका।
दोष इति वाच्यम् । समवायेन घटवति संयोगेन घटात्यन्तामावसत्त्वादिति योजनास्वीकारात् । समवायेन तद्भटाभावस्य हेतौ निवेशे तु साधनवैकल्यम् । ननु, समवायान्यसम्बन्धानवच्छिन्नप्रतियोगिताकामावत्वं हेतौ निवेश्यम् । तथा च न व्यमिचारसाधनवैकल्ये । तत्राह-साध्येति । समवायावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य नित्यत्वात्तद्धटसमानकालीनत्वेन घटात्यन्ताभावत्वमुक्तसाध्याभाववदिति भावः। ननु, तद्भुटसमवाय्यवच्छिन्नं यत् तद्धटकालवृत्तित्वं, तद्वदृत्तित्वाभावस्साध्यः। तथा च समवायेन तद्धटस्वाभावो नोक्तवृत्तित्ववान् । तद्धटसमवाय्यन्यावच्छेदेनैव तस्य तद्वत्त्वात् । तथा च न व्यभिचारस्तत्राह-अलमिति । मन्मते मिथ्यात्वघटकात्यन्ताभावस्य प्रतियोग्यविरुद्धत्वेन देशकालावच्छिन्नवृत्तिकत्वाभावेन सिद्धसाधनम् । पूर्वोक्तानुमानेषु द्वितीये अनुमाने भ्रमत्वदोषत्वयोरेननुगतत्वेन तत्तव्यक्तित्वेनैव भूमदोषयोः कार्यकारणभावस्य वाच्यत्वेन पक्षदृष्टान्तसाधारण्याभावेनासिद्धिः साधनवैकल्यं वा। पक्षदृष्टान्तवृत्त्योर्हेतुत्वयोरन्यतरत्वेन हेतुत्वे दृष्टान्तवृत्तिहेतुत्वान्यभागवैयर्थ्यम् । उक्तहेतुत्वं चासिद्धम् । पदार्थत्वादित्यत्र पदशक्यत्वमसिद्धत्वान्न हेतुः । नापि पदलक्ष्यत्वम् । पदत्वलक्ष्यत्वयोरननुगतत्वेन पक्षदृष्टान्तसाधारण्याभावेनोक्तदोषापत्तेः । दोषाजन्येत्यादिहेतावपि दोषत्वस्य तत्तद्भमननकत्वरूपत्वादननुगतत्वेनोक्तदोष इ. ति भावः ॥ इति लघुचन्द्रिकायां विश्वसत्यत्वानुमानभङ्गः ॥ । ब्रह्मज्ञानेत्यदि । ब्रह्मज्ञानान्यानाध्यं यत् ब्रह्मान्यत् , तद्वत्तित्वविशिष्टः अ. सत्त्वाभाव इत्यर्थः । पारमार्थिकसत्वेति । सामान्यानुमानोक्तरीत्या धीविशेषविषयत्वादिरूपं पारमार्थिकसत्त्वं बोध्यम् । तेन न तत्रोक्तदोषाः । पारमार्थिकसत्त्वाधिकरणवृत्तित्वमत्र व्यावहारिकं ग्राह्यम् । एतेन ब्रह्मरूपस्य पारमार्थिकसत्वस्याधिकरणमप्रसिद्धम् । कल्पिताधिकरणत्वस्य तत्रैव प्रसिद्धावपि शुक्तिरूप्यत्वे साध्याप्रसिद्धिः । तद्वृत्तित्वस्य मिथ्यात्वं तु नाद्यापि सिद्धम् । येन तत्सत्त्वेऽपि तदभावसत्त्वान्नाप्रसिद्धिः । पारमार्थिक सट्टत्तित्वेऽपि किच्चिदवच्छेदेन तदभाववत्त्वमादाय सिद्धसाधनापत्त्या पारमार्थिकसदृत्ति यत् यत् तदन्यत्वस्यैव साध्यीकार्यत्वात् । तस्य शुक्तिरूप्यत्वे ब्रह्मनिष्ठेन प्रसिद्धिरित्यादि परास्तम् । अवच्छिन्नब्रह्मनिष्ठेऽपि शुक्तिरूप्यत्वे शुद्धब्रह्मवृत्तित्वाभावानपायाश्च । अवृत्तित्वमात्रस्य दृष्टान्तावृत्तित्वेन व्याप्त्यग्राहकत्वात् ब्रह्मावृत्तित्वं हेतूकृतम् । न चावृत्तित्वमात्रस्यापि शुद्धब्रह्मनिष्ठया व्याप्तिग्राहकतेति वाच्यम् । ब्रह्मणि दृष्टान्ते साध्यवैकल्यापातात् । सत्त्वरूपत्वेन ब्रह्मणः प्रपञ्चवृत्तित्वात् परमते पारमार्थिकसत्त्वाधिकरणत्वात् । अत एव साधनवैकल्यमपि। ब्रह्मनिष्ठस्य प्रपञ्चवृत्तित्वस्याद्यापि मिथ्यात्वासिध्या ब्रह्मण्यवृत्तित्वा.
For Private and Personal Use Only