SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी। सिद्धेः । केवलस्यासत्त्वाभावस्य पारमार्थिकसत्तित्वेऽप्युक्तपक्षतावच्छेदकरूपेण तदभावरूपसाध्यवत्त्वमक्षतम् । अत एव ब्रह्मान्यति सार्थकम् । प्रातीतिकवृत्तित्वरूपेणासत्त्वाभावः पारमार्थिकावृत्तिः । अतः सिद्धसाधनादवाध्यान्तमुक्तम् । न चैवमपि ब्रह्मज्ञानवाध्यप्रातीतिकवृत्तित्वरूपेण तस्य पारमार्थिकावृत्तित्वेन सिद्धसाधनं तदवस्थामिति वाच्यम् । 'सर्व प्रातीतिकं स्वज्ञानविशेष्ये नास्तीति ज्ञानेन सर्वप्र.तीतिकानां ब्रह्मज्ञानान्यबाध्यत्वात् यथोक्तपक्षे साध्यस्यासिद्धत्वात्। रूप्यत्ववदिति । शुक्त्यवच्छिन्नचिट्ठ तेरपि शुक्तिरूप्यत्वस्य शुब्रह्मावृत्तित्वमिति भावः । उपहितवृत्तेश्शुद्धवृत्तित्वनियममते त्वाह-परमार्थसफ़ेदवदिति । परमार्थसद्भेदोऽपि ब्रह्मवृत्तिः । अन्यथा परमार्थत्वस्य स्वधर्मत्वानुपपत्तेः । अतो ब्रह्माणि सत्वादिरूपपरमार्थभेदो विद्यमानोऽपि न परमार्थसत्त्वावच्छिन्नप्रतियोगिताकः । तत्प्रतियोगिताया अवच्छिन्नखे मानाभावात् । व्यावहारिको वा परमार्थावृत्तिर्वा भेदो निवेश्यः। तादृशभेदस्य शुक्तिरूप्याद्युपहितचिद्वृत्तित्वेऽपि न शुद्धब्रह्मवृत्तित्वम् । परमार्थावृत्तित्वविशिष्टत्वरूपेण परमार्थवृत्तित्वासम्भवात् । अत एव महाकालावृत्तित्वविशिष्टत्वरूपेण महाकालवृत्तित्वं नेच्छन्ति । मिथ्या सद्विलक्षणम् । तेनासब्यावृत्तमि. थ्यात्वस्यासत्यभावेऽपि न व्यभिचारः । स्वसमानाधिकरणान्योन्येत्यादि । अन्योन्यापावो व्यावहारिकः प्रतियोग्यवृत्तिवी ग्राह्यः । तेन ब्रह्मनिष्ठं ब्रह्मभेदं प्रातीतिकमादाय न दोषः । स्वसमानाधिकरणतादृशभेदप्रतियोगिवृत्ति यद्यत् तदन्यत्वकूटः साध्यम् । यद्वा स्वप्रतियोगिवृत्तित्वं स्वसामानाविकरण्यं चेत्युभयसम्बन्न उक्तभेदविशिष्टं यत् तदन्यत्वं साधयम् । तेन स्वपदार्थस्य पक्षदृष्टान्तसाधारणस्य एकस्याभावेऽपि न क्षतिः । सदितरोते । परमार्थान्येत्यर्थः । सत्त्वव्यापकं अबाध्यनिष्ठभेदप्रतियोगितानवच्छेदकम् । पञ्चमप्रकाराविद्यानिवृत्तिपक्षे तस्याः ब्रह्मान्यत्वादेकत्वं पक्षीकृतम् । तच्चाविनाशित्वादिरूपम् । संयोगादिवदव्याप्यवृत्तित्वेनार्थान्तरं स्यादतो व्याप्यवृत्तिरिति । दैशिकसम्बन्धावच्छिन्ना किञ्चिदवच्छिन्ना हात्तयस्य तदन्य इत्यर्थः । घटगोत्वादेः कालिकसम्बन्धावच्छिन्नवृत्तेस्तन्त्वाद्यवच्छिन्नत्वादवच्छिन्नान्तम् । समवायेन घटादेरव्याप्यवृत्तित्वस्वीकार मते आह~-आदिशित । गोत्वादिरित्यर्थः। घटादौ त्ववच्छिन्नवृत्तिकान्यस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं शुक्तिरूप्यादिदृष्टान्तेन साधनीयमिति भावः । भेदप्रतियोगित्वमादाय सिद्धताधनान्मात्रेति । अजन्यस्य स्वसमानाधिकरणान्यस्याप्रतियोगीति पर्यवसितं साध्यम् । कपालादिनाशनाश्यघटादौ स्वसमानाधिकरणान्यनाशप्रतियोगित्वेन बाधादजन्येति अन्यस्य विशेषणम् । अभावप्रतियोगित्वादिति । ननु, प्रति For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy