________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६ .
अद्वैतमञ्जरी
क्षणलक्षणे कुर्वतेत्यन्तेन विशेषणान्यत्वं विशेषणमित्युक्तम् । तदनुक्तौ विशेषणस्यापि व्यावर्त्तकान्तरोपस्थापकत्वात्तत्रातिव्याप्तिः । विशेष्य इति । व्यावृत्तिधीकाल इति शेषः । विशेषणादुपलक्षणाच्चान्यत्वे सति व्यावर्तकमित्यर्थः । शब्दप्रयोग इति । शब्दजन्यानुभव इत्यर्थः । उपस्थापयतः उपस्थापकधीविषयौ। जनयतः जनकधीविषयौ। व्यावर्तकौ उक्तानुभवविषयस्य व्यावर्तकौ । उपाधी एवेति । उक्तानुभवानुपरक्तत्वात् उक्तानुभवहेतुधर्मान्तरज्ञानजनकज्ञानाविषयत्वादुक्तानुभवविषयव्यावर्तकत्वादुक्तानुभवं प्रत्युपाधी । गोत्वादेस्तूक्तव्यावृत्तिबुद्धयुपरक्तत्वादिना तादृग्बुद्धिं प्रति विशेषणत्वादिकमिति भावः । ननु, पद्मत्वादेरिव तत्तत्पद्मव्यक्तित्वस्य तावत्पद्मव्यक्तीनामन्यतमत्वस्य चोक्तानुभवविषयव्यावर्तकत्वेन तस्यापि प्रयोगोपाधित्वव्यवहारः स्यात् । किं च कुमुदादावपि पङ्कजादिपदप्रयोगसम्भवात् कथं ततो व्यावर्तकत्वम् । न हि त्वया समुदायशक्तिः स्वीक्रियते । न च विशेष्यतासम्बन्धेनोक्तानुभवं प्रति पद्मत्वादिकं कारणम् । अतो न कुमुदादौ प्रयोग इति वाच्यम् । अवयवशक्तिभिर्लक्षणया वा कुमुदादौ प्रयोगस्योत्पत्तेः। तत्राह-इदं चेति । सम्मतं युक्त्या स्वीकृतम् । सा चोच्यते । यावदवयवशक्तिज्ञानजन्यशाब्दानुभवे पद्मत्वादिना पद्मादेस्तादात्म्येन हेतुत्वात् पद्मान्वये अनुपपत्तिज्ञानकाले लक्षणयैव कुमुदादा प्रयोगः । तथा चोक्तकारणतावच्छेदकतयोतानुभवविषयव्यावर्तकत्वं पद्मत्वादेरेव । न तव्यक्तित्वादेः । किं च तत्परिचायकः पद्मत्वादिरेव वाच्यः । तथा च तत्रैव व्यावर्तकत्वव्यवहारः । अत एव शब्दपणावपि प्राभाकरमते स्थित्वा मणिकतोक्तं यथा 'सर्वनामतत्त्वमहंपदेषु बुद्धिस्थत्वसम्बोध्यत्वोच्चारयितृत्वानि प्रयोगोपाधयः । तेन बुद्धिस्थत्वादिकं तैन बोध्यते । किं तु तदुपलक्षितम् । तस्यैव तच्छक्यत्वात् । तथा पद्मत्वादिकं पङ्कजादिपदेषु प्रयोगोपाधिः । तेन तत् तैन बोध्यते । किं तु तदुपलक्षित'मिति । यत्तु बुद्धिस्थत्वोपलक्षितधर्मविशिष्टे सर्वनाम्नां शक्तिज्ञानात् बुद्धघटत्वादिप्रकारेण घटादेशाब्दबोधः । सम्बोध्यतावच्छेदकत्वोपलक्षितधर्मविशिष्टे युप्मच्छब्दस्योच्चारयितृतावच्छेदकत्वोपलक्षितधर्मविशिष्टे अस्मच्छब्दस्य शक्तिग्रहाच्छुद्धचैत्रत्वादिप्रकारेण शाब्दबोधः । न तु तत्र बुद्धिस्थत्वादिभानम् । तथा च दृष्टान्ताभावान्न पद्मत्वादेः प्रयोगोपाधित्वमिति यत् पक्षधरैरुक्तं,तन्न।बुद्धिस्थत्वाद्युपलक्षिततत्तद्धर्मविशिष्टे शक्तिज्ञानं तत्तद्धर्मप्रकारकशाब्दबोधे हेतुरित्यवश्यं वाच्यम् । अन्यथा कदाचित् घटत्वं कदाचिदन्यत् शाब्दबोधे प्रकार इत्यत्र नियामकाभावात् । तथा च धर्मविशेषमादाय कार्यकारणभावे गौरवात् बुद्धिस्थत्वादिकं विषयतावच्छेदकत्वसम्बन्धे
For Private and Personal Use Only