________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
अद्वैतमञ्जरी ।
योगो न जात इति वाच्यम् । अन्यथा हि तत्संयोगतदत्यन्ताभावयोः विरोधः । न च तत्संयोगस्य वृत्त्यनियामकत्वेन तदत्यन्ताभावाविरोधित्वमिति वाच्यम् । चित्सुखीयानुमाने तस्यापि तद्विरोधस्योक्तत्वात् । 'अत्राकाश मिति प्रत्ययेन तत्संयोगस्य वृत्तिनियामकत्वाच्च । तथा चाकाशस्य यत्र द्रव्ये अत्यन्ताभावः तत्र तत्संयोगानुत्पत्तेरावश्यकत्वे सर्वमूर्तसंयोगित्वरूपं विभुत्वं न स्यात् । यद्यपि तत्संयोगिनि समवायादिना तदत्यन्ताभावो न विरुद्ध इति वक्तुं शक्यते, तथापि तदीयसंयोगस्य तदत्यन्ताभावेनैव विरोधो लाघवादिति प्रतिपन्नेत्यादिमिथ्यात्वलक्षणोक्ताभिप्रायकमिदम् । अत एव नित्ये जलीयरूपादावपि संयुक्तसमवायादिसम्बन्धेनाकाशसत्त्वात् न नदत्यन्ताभावः । अन्यथा हि तादृशरूपादिमति आकाशसंयोगस्य वक्तुमशक्यतया आकाशस्य विभुत्वं न स्यात् । अथवा यावन्तस्सम्बन्धाः प्रसिद्धाः तावदन्यतमावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य प्रकते निवेशात् नित्यरूपादौ तादृशस्याकाशाद्यभावस्यासत्त्वान्न दोषः । यत्तु सर्वकालवृत्तित्वमेवाभावे विशेषणं देयम् । न तु सर्वदेशीयत्वम् । अश्वाद्यवच्छेदेन गोत्वाद्यभावो न कदापि वर्तते । मानाभावात्। इदानीमश्वे गोत्वं नास्तीति धीस्तु गोत्वाश्वत्वयोरलीकसंसर्गस्यात्यन्ताभावमवगाहते । न तु गोत्वस्य । तथा च गोत्वादौ सर्वकालवृत्त्यत्यन्ताभावप्रतियोगित्वाभावसत्त्वात् तत्र नाव्याप्तिः । सर्वदेशवृत्त्यत्यन्ताभावप्रतियोगित्वाभावस्तु, न लक्षणम् । घटादौ तादृशप्रतियोगित्वसत्त्वात् तत्राव्याप्तेः । घटादेहि स्वाधिकरणभूतलादितो अपसारणकाले तत्रात्यन्ताभावः प्रतीयते । 'अत्र भूतले इदानी घटो नास्तीति धार्हि घटस्यैवात्यन्ताभावं गृह्णाति । घटस्यैवोक्तकाले उक्तभूतले आरोपसम्भवादारोपितस्यैवालीकत्वेनात्यन्ताभावप्रतियोगित्वा दिाते माध्वेनोक्तमयुक्तम् । गोत्वादेरप्यश्वादावारोपसम्मवेन तत्राव्याप्तितादवस्थ्यात् अलीकस्यैवात्यन्ताभावप्रतियोगित्वमिति नियमे मानाभावाच्च । यदि च तादृशनियमस्स्वीक्रियते, तदा अत्यन्ताभावप्रतियोगिता न केनापि धर्मेण सम्बन्धेन वा अवच्छिन्ना । अलीकस्य सर्वदेशकालासम्बन्धेन धर्मविशेषसम्बन्धविशेषावच्छेदकत्वेऽनपेक्ष्यैव तदत्यन्ताभावस्य सर्वत्र सम्भवात् । अत एव 'ध्वंसप्रागभावप्रतियोगिता तादृशी' ति नव्याः । तथा च तव मते सम्बन्धधर्मविशेषाणां संसर्गाभावप्रतियोगितावच्छेदकत्वस्यानुभूयमानस्यापलापापत्तिः । वृत्तिमत्पतियोगिकत्वेति । वृत्तिमत्त्वेन यत् माध्वभिन्नस्य सम्मतं तन्मात्रनिष्ठप्रतियोगिताकत्वेनेत्यर्थः । यथाश्रुते सवदेशकालवृत्तेर्वृत्तिमत्प्रतियोगिकाभावस्याप्रसिद्धेः गगनघटोभयाभावादेरवारणा
For Private and Personal Use Only