________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षबाधोद्धारः]
लघुचन्द्रिका ।
१.१९
काशा अद्वितीया च अबाध्यत्वोपलक्षिता या चित् । तत्स्वरूपं ब्रह्मणो धर्मत्वेन कल्पितं सत्त्वम् । तदेव यदि जगतस्सत्त्वं, तदा जडेभ्योऽत्यन्तभिन्नत्वात् जडधमत्वं वक्तुमशक्यम् । अत्यन्तभेदे धर्मधर्मिभावस्य त्वयाप्यस्वीकारात् । तथा च जडात्यन्तभिन्नत्वेन जडत्वविरोध्यपि तादृशसत्त्वं कल्पिताजडतादात्म्यात् । धर्म इति वाच्यम् । ततश्च ब्रह्मणः अत्यन्ताभिन्नमपि तत् कल्पितेन ब्रह्मभेदेन यथा ब्रह्मधर्मः, तथा जडादत्यन्तभिन्नमपि कल्पितेन जडतादात्म्येन जडानां धर्म इति युज्यते । परन्तु यत् ब्रह्मण्यारोपितं तत्रैव ब्रह्मधर्मस्य तादृशसत्त्वादेः संसर्गारोपः । शुक्तिधर्मस्य सत्वेदन्त्वादेश्शुक्त्यारोपितरजतादावेव संसर्गारोपवत् । तथा च रजतत्वविरोधिनः शुक्तिसत्त्वादेस्संसर्गारोपान्यथानुपपत्त्या रजतस्य शुक्तावारोपितत्वसिद्ध्येव जडत्वविरोधि ब्रह्मसत्त्वादेरारोपान्यथानुपपत्या जडानां ब्रह्मण्यारोपितत्वसिद्ध्या मिथ्यात्वसिद्धिरिति भावः । नतु, ब्रह्मणोऽबाध्यत्वोपलसितस्वरूपत्वे भ्रमाधिष्ठानत्वमेव प्रयोनकम् । तथा च शुक्त्यादिव्यावहारिकप्रपञ्चस्यापि तत एव तदस्तु । ततश्च यथा ब्रह्मस्वरूपं सत्ता । तथा शुक्त्यादिस्वरूपमपि भेदकल्पनया शुक्त्यादिधर्मः । न तु ब्रह्मधर्मसत्तादेः शुक्त्यादौ संसृष्टतयारोपः । यद्वलात् ब्रह्मणि शुक्त्यादेरारोप आनीयते । तत्राह-चैत. न्यस्यैवति । अवच्छिन्नेत्यादि । अवच्छिन्नञ्चानवच्छिन्नञ्च तत् अवच्छिन्नानवच्छिनमिति समाहारद्वन्द्वः । तादृशं यदज्ञानविषयत्वं तेनेत्यर्थः । रुप्यादिभ्रमोपादानाज्ञानविषयत्वं शुक्त्याद्यवच्छिन्नम् । शुक्त्यादिप्रपञ्चभ्रमोपादानाज्ञानविषयत्वमनवच्छिन्नम् । तदुभयमपि चित्येव । जडे स्वतः प्रकाशत्वाप्रसक्त्या तद्वैयर्थ्यादिति भावः । सर्वदेशीयकालिकनिषेधेति। कालानवच्छिन्नं यत् सर्वदेशावृत्तित्वं तद्विशिष्टात्यन्ताभावेत्यर्थः । अनिर्वचनीयेति । प्रातीतिकेत्यर्थः । प्रातीतिके औपनिषदमते तादृशप्रतियोगित्वं सिद्धम् । माध्वमते तु तस्यैव तुच्छत्वात्तत्रैव सिद्धम् । जगति वियदादौ । कस्मिंश्चिदित्यादि । मूर्तेषु संयोगेन विभुषु संयोगेन संयुक्तमत्तसंयोगेन वा गुणादौ संयुक्तसमवायादिना आकाशस्य सत्वेनाकाशात्यन्ताभावस्यासम्भवात् । उत्पत्तिक्षणावच्छेदेन द्रव्ये तत्सम्भवेऽपि तस्य व्याप्यवृत्तित्वाभावेन प्रकतानुपयोगात् । यद्यपि कस्मिंश्चिद्देशे काले वाकाशाभावो विद्यमानोऽपि प्रकृतानुपयुक्तः, तथापि कैमुतिकन्यायेन तथोक्तम् । कस्मिंश्चिद्देशे काले तदसत्त्वे सर्वत्र तत्र सुतरां तदसत्त्वमिति भावः । नित्यत्वे. त्यादि । यंदा आकाशस्य तादृशोऽत्यन्ताभावः, तदा तस्य ध्वंसः प्रागभावो वा वाच्यः । तथा चानित्यत्वं स्यात् । यत्र द्रव्ये आकाशस्यात्यन्ताभावः तत्र तस्य सं.
For Private and Personal Use Only