________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे भाविबाधोपपत्तिः]
लघुचन्द्रिका ।
गनविरुद्धविषयकत्वनिश्चयादेवोत्थानम् । अन्यथा 'इदं ज्ञानं दूरत्वदोषजन्यं न वे'ति सन्देहात् । तथा च तस्यैव प्रकते युक्तित्वमवश्यापेक्षितत्वादागमनन्यस्य परिणामज्ञानस्य विरोधिप्रत्यक्षस्य सत्त्वात् प्रथमतोऽनुत्पत्तावप्यागमतात्पर्यविरुद्धविषयकत्वनिश्चयस्य युक्तित्वसम्भवादिति सूक्ष्मदर्शनाभावाच्च बुद्धिमान्द्यम् । दुष्टकरणकत्येति । दोषसह स्तनन्यत्वेत्यर्थः । आगमादिना आगमादिबाटेतहेतुना आगमतात्पर्यविरुद्धविषयकत्वेन । तद्वत् अनुमानविरुद्धविषयकत्वेन हेतुना । निश्चयः जन्यत्वनिश्चयः । लिलादीति । लिङ्गाद्याभासेयर्थः । एकत्र बाध्यबाधकयोरेकत्र ॥
॥ इति लघुचन्द्रिकायां प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् ॥ गुदासेनेति । प्रत्यक्षे बाधकशङ्काया इति शेषः । इयत्तानवधारणेति । एतावन्त्येव बाधकानीति निश्रयस्याभावेत्यर्थः । प्रत्यक्षस्य प्रत्यक्षान्तरस्य । तथा च प्रत्यक्षान्तरत्वावच्छेदेन प्रमात्वशङ्कायां तस्य वाधकत्वानिश्चयेऽपि बाधकत्वसंशयसम्भवात् प्रत्यक्षे प्रत्यक्षान्तररूपवाधकत्वस्यौचित्यावर्जितस्संशयो दुर्वार इति 'ब्रह्माहमम्मी'ति प्रत्यक्षरूपवाधकशङ्कास्त्येवेति भावः । आरोप्यसत्ताधिकेति। प्रातीतिकव्यावहारिकपारमार्थिकसत्तानां पूर्वपूर्वीपेक्षयोत्तरोत्तरमधिकम् । तत्र पलवाविद्यावच्छिन्ना चिदाद्या 'सदिदं रजत मित्यादिभ्रमे रजतादिनिष्ठतया भाति । मूलाविद्यावच्छिन्ना चित् द्वितीया 'घटस्सन्नि' त्यादिज्ञाने भाति । सदहमित्यादिज्ञाने शुद्धचिद्रूपा तृतीया भाति । अज्ञानक्ये तु अज्ञानविषयतावच्छेदककिञ्चिदवच्छिन्ना चित् द्वितीया । उक्तावच्छेदकान्यकिश्चिदवच्छिन्ना चिदाद्या । शुद्धचिद्रूपा तृतीया । रङ्गादिकमेवोक्तावच्छेदकम् । न तु शुक्तिरूप्यादिकम् । सुखादिकं प्रातीतिकमेव द्वितीयपक्षे । ननु,स्वाप्नभावाभावज्ञानयोः बाध्यबाधकत्वं स्वयमेव मिथ्यात्ववादे स्वीकृतम् । तयोश्च न बाध्यधीविषयसत्ताधिकसत्ताविषयकत्वरूपमापेक्षिकप्रमाणत्वम् । तलाह-अन्य नसत्ताकविषयकत्वेन वेति । अन्यूनसत्ताकत्वमविकसत्ताकत्वं च मिथ्यात्ववादे विवेचितम् । प्रतियोगिनि बाधकतायोग्ये । दृष्ट प्रमिते । प्रमात्वेन निश्चित इति यावत् । अस्माकं ज्ञानातिरिक्तज्ञेयस्य उक्तसत्तावादिनाम् । स्वप्नादीत्यादिना शुक्तिरूप्यादिप्रातीतिकस्य व्यावहारिकस्य च सङ्ग्रहः । मृषा बाध्या। तव ज्ञानातिरिक्तं ज्ञेयमलीकं कल्पितभेदेन ज्ञानमेव ज्ञेयमितिवादिनो योगाचारस्य ज्ञानं सर्वं तादृशमपि मिथ्येतिवादिनो माध्यमिकस्य च मते । भेदः बाध्यं स्वप्नादिज्ञानं बाधकं जायदादीति विशेषः । किंमतः किंप्रयुक्तः । आद्यमते सर्वेषां ज्ञानानां सत्यत्वेन खात्मकविषयकत्वस्याविशेषात् कल्पितभेदस्याज्ञातसत्तानभ्युपगमेन व्यावहारिकत्वाभावाव्यावहारिकभेदविशिष्टस्य ज्ञेयस्य
For Private and Personal Use Only