SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदे आगमबाधोद्धारः] लघुचन्द्रिका। 'उत्तरवेद्यामग्निं निदधाती'त्यनेन चोत्पत्तिविनियोगावुत्तरवेदेविधीयते । प्रथमोत्तमयोस्तत्प्रतिषेधवाक्यं तु नित्यानुवाद इति सप्तमतृतीये स्थितम् । तथा च तत्र यथा प्राप्तप्रणयनाद्विलक्षणं प्रणयनं विधीयते, तथा विश्वसत्त्वश्रुत्या प्रत्यक्षप्राप्तसत्त्वाद्विलक्षणतात्त्विकसत्त्वं बोध्यत इति समुदायार्थः । गतिसामान्यति । सर्ववेदान्तवाक्यानामद्वैतावगतिननकत्वेन समानतेत्यर्थः । 'उपक्रमोपसंहारावम्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥” इति वृद्धोक्तौ उपक्रमोपसंहारपदाभ्यां वि. चार्यवाक्यस्याद्यन्तभागयोरेकार्थपर्यवसानं लक्ष्यते । अभ्यासः अनन्यपरं पुनश्श्रवणम् । अर्थवादः स्तुतिनिन्दान्यतरबोधकवाक्यम्।एतत्त्रयं शब्दघटितत्वाच्छन्दनिष्ठम् । तत्राद्यस्यैकार्थतात्पर्यनिर्णायकत्वेन लिङ्गत्वम् । तात्पर्यविषयत्वेन सन्दिग्धानां बहूनां मध्ये यस्मिन्नर्थे आद्यन्तभागयोः पर्यवसानं, तस्मिन्नेव तात्पर्यनिर्णयात् । अन्यथा तस्य वैय र्थ्यात् । क्वचिच्चानुवादत्वादिशकापसारकतयापि तस्य लिङ्गत्वम् । यदि हि तस्मिनर्थे वाक्यमनुवादः स्यात्, तदोक्तपर्यवसानं व्यर्थ स्यादिति युक्तेः । द्वितीयं तु समिदादिवाक्येषु यद्यपि विलक्षणनानाकर्मविधाने तात्पर्यग्राहकम् । विहितविधानायोगात्, तथापि सिद्धार्थविषयकं सदेकार्थतात्पर्यज्ञापकम् । अन्यथा पुनश्श्रवणवैयर्थ्यात्। तस्मादादरज्ञापनद्वारा तस्य तात्पर्यज्ञापकत्वम् । तदुक्तं भामत्याम्-'अभ्यासे हि भू यस्त्वमर्थस्य भवति । यथा अहो दर्शनीया अहो दर्शनीयेति । आदरश्च यद्यपि प्राशस्त्यरूपोऽभ्यस्यमानस्यार्थस्य विधेयत्वानुमानद्वारा तात्पर्यविषयत्वं ज्ञापयति । अर्थवादोऽपि प्राशस्त्यज्ञापनद्वारा तथैव तज्ज्ञापकः, तथाप्यर्थवादबाध्यं प्राशस्त्यं बलवदनिष्टाजनकत्वरूपम् । अभ्यासबोध्यं तु अर्थान्तरादुत्कृष्टत्वरूपमिति नाम्यासार्थवादयोरेथै क्यम् । अपूर्वा प्रकृतवाक्यार्थधीविषये उक्तधीपूर्वज्ञातत्वम् । फलमुताधियः प्रयोजनवत्त्वम् । उपपत्तिरुक्तधीविषयस्याबाधितत्वम् । एतस्य तु त्रयस्य प्रमात्वघटकतया तात्पर्य प्रति व्यापकतया लिङ्गत्वम् । यथा यज्ञोपवीतादिकं ब्राह्मण्यं प्रति । तत्राद्यमनुवादवाक्यस्य स्वार्थे प्रामाण्यवारणाय । द्वितीयं 'उत्ताना वै देवगवा' इत्यादेस्तद्वारणाय । तृतीयं 'ग्रावाणः प्लवन्ते' इत्यादेः । न चोत्तानादिवाक्यस्य निष्प्रयोजनार्थपरत्वे तदध्ययने प्रवृत्त्यनुपपत्तेः स्वार्थे तात्पर्याभावेऽपि प्रामाण्यशरीरे प्रयोजनवत्त्वनिवेशो व्यर्थ इति वाच्यम् । यादृशं ज्ञानं प्रवृत्तिनिवृत्तिद्वारा साक्षाद्वा प्रमातुरिष्टप्रयोजकं, तस्यैव प्रमात्वेन लोके व्यवहारेण निष्प्रयोजनस्याप्रमात्वात् । अत एव 'औत्पत्तिकस्तु शब्दस्याथैन सम्बन्धः' 'तस्य ज्ञानमुपदेशः' 'व्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वादिति जैमिनिसूत्रे तथैवोक्तम् । औत्पत्तिकः श ब्दार्थयोस्सम्बन्धः। न तु दोषवत्पुरुषकतस्सङ्केतः । अतस्तस्य धर्मस्य ज्ञानं ज्ञा For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy