________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
धारकार्थकं शयनक्रियाविशेषणम् । कीदृशं शयनम् । तत्राह-यथेत्यादि । श्यीतेत्यन्तम् । गला शयीतेति । शयित्वा गच्छेदित्यर्थः । मुखं व्यादाय स्वपितीत्यादिवत् । अन्यथा शयनोत्तरमेवानन्दप्राप्तेर्यथाश्रुतासङ्गतेः । तथा च यथा कुमारादिः शयित्वानन्दातिशयं गच्छति । एवं विज्ञानमयस्य शयित्वानन्दातिशयरूपब्रह्मप्राप्ति-रूपं शयनमित्यस्मिन्नर्थे दृष्टान्तदाष्टान्तिकवाक्ययोः पर्यवसानम्।आनन्दातिशयप्राप्तिरूप. शयनात् पूर्व शयनं विवेचयन्ती श्रुतिराकांक्षितं क्रममाह-हिता नामेत्यादि । एवं च पुरीतदाधारिका सुषुप्तिरिति प्रलापो वाक्यार्थाज्ञानादेव। पुरीतत्प्राप्त्युत्तरं मनआधुपाधिलयेन मनआधुपाधिकृतभेदाभावरूपब्रह्मप्राप्तरेव सुषुप्तित्वस्य श्रुतिसिद्धत्वात् । अत एव 'तदभावो नाडीषु तच्छुतेरात्मनि चेति सूत्रे नाडीपुरीतद्बह्मणां सु. षुप्तौ क्रमसमुच्चयः सिद्धान्तितः । वाक्यान्तरेति । 'न तु तद्वितीयमम्ति ततोऽन्यद्विभक्त' मित्यादिवाक्येत्यर्थः । सर्वलोकसृष्टिः सर्वलोककमिकैका सृष्टिः । अनन्तरवाक्यति । गार्य प्रति ब्रह्म ज्ञापयन् अजातशत्रुर्गार्यस्य ब्रह्मप्रश्नेऽप्यसामर्थ्यात् स्वयमेव प्रश्नपूर्वकं ब्रह्मोक्तवान् । 'यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः कैष तदाभूत् कुत एतदागा' दिति प्रश्नः । यत्रैष एतत्सुप्तोऽभूत् य एष विज्ञानमयः पुरुषः तदेषां प्राणानां विज्ञानेन विज्ञानमादाय एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते' इति प्रत्युत्तरम् । तत्र क्वेत्यनेन देशस्थैव प्रश्नः । अन्यथाकाशरूपदेशोत्तरासङ्गतेः । तथा च यत्रेति कालस्यैव निर्देश इति भावः । ननु, यत्रेति क्वेत्यस्य विशेषणम् । तत्राह-कालानिर्देश इति । ननु, तथाप्याकाशशब्दितं ब्रह्मैव एतस्मादात्मन इत्यत्रोक्तमिति चेन्न । एवमेवैष एतच्छेते इत्यत्राव्यवहितपूर्ववाक्ये जीवस्यैव प्राधान्येनोक्तत्वेनैतत्पदबोध्यत्वौचित्यात् 'पुरत्रये क्रीइति यम्तुजीवस्ततस्तु जातं सकलं विचित्र'मित्यादिश्रुत्यन्तराञ्च । अत एव तस्माद्वा एतस्मादात्मन आकाश इत्यादिश्रुतावात्मपदं सार्थकम् । ब्रह्मात्मकजीवकारणत्वपरत्वात् । अत एव श्रुत्यन्तरे ब्रह्मकारणत्वं जीवकारणत्वरूपं बोध्यम् । अत एव 'असतोऽधिमनोऽसृजत मनः प्रजापतिमसृजत । तच्चेदं मनस्येव प्रतिष्ठितं यदिदं किच्चे' त्यादिश्रुत्या जगतो मनःपरिणामत्वमुक्तम् । एतत्सर्वं मन एवेति श्रुतिव्याख्याने वार्तिकेऽप्युक्तम् । 'शुक्लं कृष्णमणु स्थूलमिति धीः कर्मणो वशात् । द्वैताधि. कारमापन्ना वैश्वरूप्यं न गच्छति। धीविपर्ययरूपेयं यतश्शुद्धादिरूपिणी । मन एवेत्यतः प्राज्ञास्सर्वं रूपं प्रचक्षते' इति-यतो धीर्मनःपरिणामः, अतस्द्वद्विषयोऽपि।सुषुप्तौ मनोऽभावे दृश्यदर्शनयोरभावात् सुप्तोत्थितस्य मनोऽन्वये कार्यान्वयाच्चेत्यर्थः । गौडपादीयभाष्यतदानन्दगिरिवासिष्ठसंक्षेपशारीरकादौ चायमर्थः प्रपञ्चितः । स्थूलाधिका
For Private and Personal Use Only