________________
Shri Mahavir Jain Aradhana Kendra
७२
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
दो साधितं तस्यैव संयोगादौ साधने सिद्धसाधनात् । संयोगादावव्याप्यवृत्त्यत्यन्ताभावाप्रतियोगित्वविशिष्टे तस्य साधने तु पक्षविशेषणासिद्धिः । किं च संयोगादौ मिध्यात्वानुमितेः पूर्वं शुक्तिरूप्यस्येव घटत्वादेरपि मिध्यात्वस्य प्रसाध्यत्वेन तयोदृष्टान्तत्वे न विशेषः । अवश्यं चास्माभिः सर्वदृश्यामिथ्यात्ववादिभिः शुक्तिरूप्यादेर्मिथ्यात्वं साधनीयमेवेत्याशयेनाह - अधिकं चेत्यादि । 'आद्यं स्यात् पञ्चपाद्युक्तं ततो विवरणोदिते । चित्सुखीयं चतुर्थं स्यादन्त्यमानन्दबोधजम् । इति पञ्चविधं प्रोक्तं मिथ्यात्वं ध्वान्तनाशकम् ॥'
॥ इति लघुचन्द्रिकायां मिथ्यात्वनिरुक्तिः ॥
प्रसक्तयोः ज्ञातयोः । एकमिथ्यात्वे एकतर मिथ्यात्वे । अपरसत्यत्वनियमात् अन्यतरस्याधिकसत्तानियमात् । तद्वदेवेति । यथा मिथ्यात्वसाधकमानं मिथ्यात्वे न प्रवर्तते । तथा प्रपञ्चेऽपीत्यर्थः । तत्रेदं बोध्यम् । ययोर्विरुद्धयोरेकं मिथ्या तयोरेकापेक्षया अपरमधिकसत्ताकमित्येव नियमः । न त्वविरुद्धयोः यन्मिथ्या, तदपेक्षया अपरमधिकसत्ताकमिति नियमः । शुक्तिरूप्ये व्यावहारिक मिथ्यात्वयुक्ते तात्विकसत्यत्वापत्तेः । ननु, परस्परविरहरूपयोः परस्परविरहव्यापकयोश्चैकमिथ्यात्वे अपरस्याधिकसत्ता आवश्यकी । अन्यथा समसत्ताकत्वे तयोः सहावस्थानं न स्या त् । तथा च गोत्वाश्वत्वयोः समानाधिकरणप्रातीतिकयोः परस्परविरहत्वाद्यभावात् समसत्ताकत्वसम्भवेऽपि प्रपञ्चगतयोः सत्यत्वमिथ्यात्वयोरुक्तविरहत्वादिमत्त्वान्न समसत्तेत्यत आह-यथेति । येन प्रकारेणेत्यर्थः । तथा स प्रकारः । उपपादितं सत्त्वासत्त्वे अधिकृत्य ज्ञापितम् । तथा च सत्त्वासत्त्वयोः परस्पराभावत्वं नास्ति । प्रपञ्चे तयोरेकासत्त्वेऽप्यपरासत्त्वादिति यथोक्तं प्रथममिथ्यात्वे । तथा सत्यत्वमिथ्यात्वयोरपि तन्न । तुच्छे द्वयोः प्रत्येकासत्त्वादिति भावः । ननु, तथापि परस्पराभावव्याप्यत्वात्तयोर्व्यावहारिकयोर्न सामानाधिकरण्यम् । किं च मिथ्यात्वाभावरूपं सत्यत्वमित्यस्य द्वितीयमिथ्यात्वोक्तिशेषे स्वयमेवोक्तत्वात् परस्परविरहत्वमप्यस्त्येव । एवं तुच्छास्वीकर्तृमते परस्परविरहव्यापकत्वमप्यस्ति । तवाह - परस्परविरहरूपत्वेति । परस्परविरहात्मकत्वे परस्परविरहव्यापकत्वे परस्परविरहव्याप्यत्वे चेत्यर्थः । परस्परविरहेण रूपणं यस्येति व्युत्पत्तेः, परस्परविरहस्य रूपणं यस्मादिति व्युत्पत्तेश्व व्यापकव्याप्ययोरपि रूपपदेन लाभसम्भवात् । ननु, प्रपञ्चे सत्यत्वं मिथ्यात्वविषमसत्ताकमपि तात्विकमेव । अन्यथा ‘सत्यं चानृतं च सत्यमभव' दित्यादिश्रुतौ सत्यस्य ब्रह्मणः प्रातीतिक सत्यत्वाश्रयाकाशादिप्रपञ्च शुक्तिरूप्यादौ च कारणत्वोक्तेरनृतपदं विनापि संभवेन
For Private and Personal Use Only