________________ षष्ठः सर्गः . दुर्गा सिंह पर ) इस तरह 'मकरी' पर वाहनत्व की कल्पना करने से उत्प्रेक्षा है, जिसके मूल में “एकावली' पर 'नाकनदीत्व का आरोप कारण बना हुआ है, अतः यहाँ रूपक और उत्प्रेक्षा का संकर है। 'मध्या' 'मध्ये' तथा 'करी' 'कर' में छक, अन्यत्र वृत्त्यनुप्रास है। तामेव सा यत्र जगाद भूयः पयोधियादः कुचकुम्भयोस्ते। सेयं स्थिता तावकहृच्छयाङ्कप्रियास्तु विस्तारयशःप्रशस्तिः / / 70 // अन्वयः- यत्र सा ताम् एव सखीम् भूयः जगाद-(हे सखि ! ) पयोधियादः तावक-हृच्छयाङ्कप्रिया ते कुच-कुम्भयोः स्थिता सा इयम् ( मकरी) विस्तारयशः-प्रशस्तिः अस्तु। टीका-यत्र यस्यां सभायाम् सा पूर्वोक्ता सुमध्या युवतिः ताम् पूर्वोक्ताम् एव सखीम् आलिम् जगाद अब्रवीत् -'हे सखि ! पयोधेः समुद्रस्य याद: जन्तुः ( यादांसि जल-जन्तवः इत्यमरः ) तावकस्य त्वदीयस्य हृच्छयस्य ( कर्मधा० ) हृदयस्थितकामस्येत्यर्थः अङ्कः चिह्नम् चिह्रभूतो मकर इत्यर्थः (10 तत्पु० ) 'कामो हि मकरध्वजः' इत्युक्तेः तस्य मकरस्य प्रिया पत्नी ( 10 तत्पु० ) ते तव कुचौ स्तनो कुम्भौ कलशी इव ( उपमित तत्पु० ) तयोःस्थिता सा इयम् मकरी विस्तार य त्वत्कुचयोः परिणाहस्य पीवरत्वस्येति यावत् यत् यशः कीर्तिः तस्य प्रशस्तिः स्तुतिवर्णना अस्तु जायताम् / विशालसागरे निवसन्ती जलजन्तु: मकरी सागरं विहाय तब स्तनयोः स्थिता सती ते कुचयोः विशालतां सूचयतीति भावः // 70 // व्याकरण--पयोधिः पयांसि धीयन्तेऽत्रेति पयस् + Vधा + कि ( अधिकरणे ) तावकः तवायमिति युष्मत् + अण, युष्मत् को तवकादेश। हृच्छय: शेते इति शी + अच् ( कर्तरि ) शयः; हृदिशाय इति ( स० तत्पु० ) प्रशस्ति: प्र+ Vशंस + क्तिन् (भा वे ) / अनुवाद - जहाँ वह ( सुमध्या) उसी सखी को फिर बोल पड़ी-('हे सखी! ) सागर की जन्तुरूप तुम्हारे हृदयस्थित काम के चिह्न-भूत मकर की प्रिया, तुम्हारे कुच-कुम्भों में स्थित बह यह मकरी ( तुम्हारे कुचों के ) विस्तार के यश की प्रशस्ति बने / // 70 // टिप्पणी--विस्तृत सागर को छोड़ यदि मकरी तुम्हारे कुवों में रहती है, तो यह तुम्हारे कुचों की महती प्रशंसा उनके विस्तार की यशःप्रशस्ति ही