________________ 248 नैषधीयचरिते तस्य पारम् परतीरम् ( 10 तत्पु० ) एव अवापिता प्रापिता वाग्व्यापारातीता कृतेत्यर्थः, काम-वशात् अतिचतुरा जातेति भावः / / 108 // __व्याकरण-विधिना विदधाति ( जगत् ) इति वि+/धा + कि (कर्तरि)। यौवनेन यूनः युवत्या वा भाव इति युवन् + अण् / वैदग्ध्यम् विदग्धस्य विदग्धायाः वा भावः इति विदग्ध + ष्यन / अध्याप्य अधि + इ + णिच् + ल्यप् / अवापिता अव + आप + णिच् + क्त ( कर्मणि ) / __ अनुवाद ब्रह्मा ने ही पहले इसे लोकातिशायी बनाया, ( तदनन्तर ) यौवन ने इस पर चार चाँद लगा दिये, ( फिर ) काम ने इसे चतुराई सिखाकर वर्णनातीत हो कर दिया है / / 108 // टिप्पणी-दमयन्ती के अंगों का चित्रण करके नल उसकी कामकृत चातुरी का वर्णन करने से रह गया / उसकी चातुरी 'वाङ्मनसोऽतीत' है / यहाँ एक ही दमयन्ती-रूप आधार में क्रमशः अतिविश्वत्वादि धर्मों का सम्बन्ध-विधान करने से पर्यायालंकार है। शब्दालंकार वृत्त्यनुप्रास है। विद्याधर के अनुसार वाक्पथ का सम्बन्ध होने पर भी असम्बन्ध बताने में सम्बन्धे-असम्बन्धातिशयोक्ति है। इति स चिकुरादारभ्यैनां नखावधि वर्णयन् हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः / हृदयभरणोद्वेलानन्दः सखीवृतभीमजा नयनविषयीभावे भावं दधार धराधिपः // 109 // अन्वय:-इति स धराधिपः हरिणरमणीनेत्राम् एनाम् चिकुरात् आरभ्य नखावधि वर्णयन् चित्राम्बुधौ तरदन्तरः ( तथा ) हृदयभरणोद्वेलानन्द: सन् सखी भावं दधार / टोका-इति उक्त-प्रकारेण स धरायाः पृथिव्याः अधिपः भर्ता ( 10 तत्पु०) नलः हरिणस्य मृगस्य रमण्याः स्त्रियः हरिण्या इत्यर्थः नेत्रे नयने (10 तत्पु० ) इव नेत्रे ( उपमान तत्पु० ) यस्याः तथाभूताम् (ब० बी० ) एनाम् दमयन्तीम् चिकुरात् केशात् ('चिकुरः कुन्तलो बाल: कचः केशः शिरोरुहः' इत्यमरः) आरभ्य प्रभृति नखः नखरः अवधिः पर्यन्तः ( कर्मधा० ) यस्मिन् कर्मणि यथा स्यात्तथा ( ब० बी० ) वर्णयन् निरूपयन् चित्रस्य आश्चर्यस्य ('आलेख्याश्चर्ययोचित्रम्' इत्यमरः ) अम्बुधौ समुद्र (10 तत्पु० ) अथवा चित्रम् एवाम्बुधिः