________________ नवमः सगः 505 टोका-अये ! खेदे ( 'अये विषादे क्रोधे च'। इत्यमरः) मया आत्मा स्वरूपम्, अहं नलोऽस्मीति तथ्यम् किम् किमर्थम् अनिह्नतीकृतः प्रकटीकृतः ? अत्र अस्मिन् आत्मप्रकटनविषये स प्रसिद्धः शतं क्रतवो यज्ञाः यस्य तथाभूतः (ब० वी०) इन्द्रः तु पुनः माम् किम् मन्ता मंस्यते ? मां कपटिनमेवावगमिष्यतीत्यर्थः / पुरः पूर्वम् स्वा स्वकीया भक्तिः उपासना सेवेति यावत् तया ( कर्मधा० ) नमन् तस्याने नम्रोभूतः सन् अथ पश्चात् इदानीम् ह्रिया लज्जया आविलः मलिनः सन् नमन्नित्यर्थः तस्य शतक्रतोः इङ्गितानि क्रोधकृतचेष्टितानि भ्रूभङ्गादीनि न विलोकिताहे न द्रक्ष्यामि / मत्कृतविश्वासघाते कुपितोऽसौ न जाने किं ममापकरोतीति भावः // 122 // व्याकरण-अनिह्नतीकृतः नि + ह्र + क्त (कर्मणि ) निह्नतः न निहती. कृत इति न + निह्नत + च्वि, ईत्व + V + क्त / मन्ता/मन् + लुट / इङ्गितानि/इङ्ग + क्त ( भावे ) / विलोकिताहे वि + Vलोक् + लुट् उ० पु० / __ अनुवाद-"खेद की बात है कि मैंने अपने आपको क्यों प्रकट कर दिया (कि में नल हूँ ) ? इस विषय में वह इन्द्र मुझे क्या समझेंगे? पहले तो अपनी भक्ति से और अब फिर लज्जा से सिर झुकाये मैं उनकी ( क्रोध-) चेष्टाओं को भी न देख पाऊंगा" // 122 // टिप्पणी-नल को अपने कर्तव्य-भ्रंश पर बड़ा दुःख हो रहा है कि मैंने यह क्या किया। मन में सोच रहे हैं कि अब इन्द्र को मैं कैसे मुंह दिखाऊंगा। लाज गड़ा मैं उनके आगे मुख नहीं उठा सकूँगा। क्रोध-वश शाप दे दें तो क्या करूंगा। 'विलो, विलो' में यमक, अन्यत्र वृत्त्यनुप्रास है / / 122 // स्वनाम यन्नाम मुधाभ्यधामहो महेन्द्रकार्य महदेतदुज्झितम् / हनूमदाद्येयशसा मया पुनद्विषां हसैर्दूत्यपथः सितीकृतः // 123 // अन्वयः--नाम यत् स्व-नाम मुधा अभ्यधाम् / एतत् महत् महेन्द्र-कार्यम् उज्झितम् / हनूमदाद्यैः दूत्यपथः यशसा सितीकृतः, मया पुनः द्विषां हसैः सितीकृतः / टोका-नाम विषादे अहम् यत् स्वम् नाम ( कर्मघा० ) अहं नलोऽस्मीति स्वकीयं नामधेयम् मुषा व्यर्थमेव अभ्यधाम् अकथयम् / एतत् इदम् महत् महत्त्वपूर्णम् महेन्द्रस्य शक्रस्य कार्यम् कर्म उज्झितम् त्यक्तम्, महदनुचितं मया