________________ नैषधीयचरिते श्चित्त के लिए 'कामात् तद् द्विगुणं भवेत्' लिखा हुआ है जब कि अज्ञानपूर्वक किये पाप का प्रायश्चित थोड़ा ही बताया गया है। जैसे अज्ञान-दोष से पाप-रूप दोष में लघुता आ जाती है, वैसे ही प्रकृत में भी उन्माद-दोष से वेदना-रूप दोष में लघुता आ गई है अर्थात् वह कम अनुभव हुई / इस तरह यहाँ उपमा है, साथ ही उत्तरार्धगत सामान्य बात से पूर्वार्धगत विशेष बात का समर्थन होने से अर्थान्तरन्यास है / 'दोषा' 'दोष' में छेक, अन्यत्र वृत्त्यनुप्रास है / / 132 / / 'तवेत्ययोगस्मरपावकोऽपि मे कदर्थनात्यर्थतयाऽगमद्दयाम् / प्रकाशमुन्माद्य यदद्य कारयन्मयात्मनस्त्वामनुकम्पते स्म सः // 133 // अन्वयः-तव अयोग-स्मरपावकः कदर्थनात्यर्थतया अपि इति मे दयाम् अगमत् , यत् अद्य सः (माम् ) उन्माद्य, मया आत्मनः प्रकाशं कारयन् त्वाम् अनुकम्पते स्म। टीका-तव त्वत्सम्बन्धी त्वद्विषयक इत्यर्थः न योगः अयोगः (नन तत्पु०) विरह एव स्मरपावकः कामाग्निः (कर्मधा० ) कदर्थनानाम् पीड़ानाम् अत्यथंतया अत्याधिक्येन (10 तत्पु०) मयि अत्यधिकपीडाकारकत्वेन अपि मे मयीत्यर्थः दयाम् करुणाम् अगमत् प्राप्तवान् मां प्रति दयामकरोदित्यर्थः, यत् यस्मात् अद्य अस्मिन् दिवसे त्वद्विलापसमये इत्यर्थः माम् उन्माद्य उन्मादावस्थां प्रापय्य मया प्रयोज्यक; मत्पावति इति यावत् आत्मनः स्वस्यैव ममैवेत्यर्थः प्रकाशम् 'अहं नलोऽस्मीति' प्रकटताम् कारयन् कतु प्रेरयन् त्वाम् दमयन्तीम् अनुकम्पते स्म तब दयते स्म / अयं भाव:-यद्यपि त्वद्विरहकामाग्निना मह्यम् अत्यर्थ पीडा दत्ता तथापि अद्य स मयि दयां प्रादर्शयत् यतः तेन त्वद्विलापेऽद्याहम् उन्मादावस्थां प्रापितः यस्यामहं स्वप्रकाशनमकरवम् 'अहं नलोऽस्मीति'। दूत-छद्मनि मां प्रत्यक्षं दृष्ट्वा त्वयाऽपि मत्प्राप्तिनिश्चयात् स्वप्राणा, रक्षिता, रक्षितेषु त्वत्प्राणेषु अहमपि च स्वप्राणान् रक्षितवान् एवं सति त्वद्विरह-कामाग्निना तव मम चोभयस्योपरि दया कृता // 133 / / व्याकरण-कदर्थनानाम् इसके लिए पीछे श्लोक 131 देखिये ! अत्यर्थतया अतिशयितः अर्थः यस्मिन्निति ( प्रादि ब० वी० ) तस्य भावः तत्ता प्रकाशः १-न वा /