________________ नवमः सर्गः अन्यथा वह यहां स्त्रीलिङ्ग न होता। 'ममी' 'ममा' में छेक, अन्यत्र वृत्त्यनुप्रास है // 131 // अयोगजामन्वभवं न वेदनां हिताय मेऽभूदियमुन्मदिष्णुता। उदेति दोषादपि दोषलाघवं कृशत्वमज्ञानवशादिवैनसः // 132 // अन्वयः- इयम् मदिष्णुता मे हिताय अभूत् ( यत् अहम् ) अयोगजाम् वेदनाम् न अन्वभवम् / अज्ञानवशात् एनसः कृशत्वम् इव दोषात् अपि दोष-लाघवम् उदेति / टीका-इयम् एषा उन्मदिष्णुता उन्मत्तता ममोन्मादावस्थेत्यर्थः मे मह्यम् हिताय उपकाराय अभत जाता यत् यस्मात् अहम् न योगः अयोगः वियोगः विरह इति यावत् ( नन् तत्पु० ) तस्मात् जायते इति तथोक्ताम् ( उपपद तत्पु० ) वेदनाम् व्यथाम् न अन्वभवम् नानुभूतवान् अनुन्मादावस्थायामनुभूयमाना विरहवेदना उन्मादावस्थायां नानुभूयते, तस्याः सर्वस्य विस्मरणात्, सुखस्यैव चानुभवात्, तस्मादुन्मादेन मे बहूपकृतमिति भावः / न ज्ञानम् अज्ञानम् (नम् तत्पु० ) तस्य वशात् कारणात् (10 तत्पु० ) एनस: पापस्य कृशत्वम् लाघवम्, ज्ञानपूर्वककृतपापापेक्षया अल्पत्वमित्यर्थः इव दोषात् अपि दोषस्य लाघवम् कृशत्वम् उदेति जायते / लोके दोषोऽपि कदाचित् दोषान्तरं लघूकरोति गुणतां चापादयति / प्रकृते उन्मादः खलु वातजो दोषः, वेदनाऽपि च कामजो दोषः, किन्तु उन्मादात् वेदनारूपो दोषो लघु भवति अर्थात् दोषो न भूत्वा गुणो भूतः उन्मदे वेदनास्थाने नलस्य सुखानुभवात् इति भावः // 132 // व्याकरण-उन्मविष्णुता उन्माद्यतीति उत् +/मद् + इष्णुच् (कर्तरि)+ तल ( भावे ) + टाप् / मे हितयोग में च० / अयोगजाम् अयोग+ जन् + ड+ टाप् / लाघवम् लघोर्भाव इति लघु + अण् / __अनुवाद-"( मेरी ) यह उन्मत्तता ( उन्मादावस्था) मेरे लिए भली रही, क्यों कि मैं विरह-वेदना अनुभव नहीं कर पाया। अज्ञान-वश किये पाप में जैसे कमी आ जाती है, वैसे ही दोष-वश भी दोष में कमी आ जाती है" || 132 // टिप्पणी-पाप दो तरह से किये जाते हैं—ज्ञान पूर्वक और अज्ञान-पूर्वक / धर्मशास्त्र में ज्ञान-पूर्वक किये हुए ब्रह्महत्यादि पाप और अज्ञान-पूर्वक किये पाप के प्रायश्चित्त में बड़ा अन्तर कहा हुआ है। ज्ञानपूर्वक किये पाप के प्राय