________________ 508 नैषधीयचरिते या लज्जा तस्याः भरात् प्राचुर्यात् ( 10 तत्पु० ) अदः एतत् मे हृदयम् स्फुटति विदरणोन्मुखमस्तीत्यर्थः यत् यतः विबुधैः देवैः अस्य मे हृदयस्य शुद्धिः निर्दोषता विबुध्यते सम्यग् ज्ञायते अन्तर्यामित्वात्, तु पुनः ते इदम् एतत् वन्तुरम् विषमम् तत्त्वम् मया बुद्धिपूर्वकम् आत्म-नाम प्रकाशितम् अबुद्धिपूर्वकं वेति तथ्यम् विदन्तु जानन्तु / देवानां दृष्टी मया निर्दोषेण भवितव्यमस्ति, लोकस्य तु नास्ति मे चिन्तेत्यर्थः / जनानां लोकानाम् आननं मुखे कः करम् हस्तम् अर्पयिष्यति दास्यति न कोऽपीति काकुः / लोकानां मुखं पिधातुं न शक्यते एवं न वदतेति भावः // 115 / / व्याकरण-त्रपा/त्रम् + अङ ( भावे ) + टाप् / शुद्धिः। शुध् + क्तिन् ( भावे ) / तत्त्वम् तस्य भाव इति तत् + त्वल दन्तुरम् उन्नता दन्ता अस्येति दन्त+ उरच। अनुवाद-"लज्जा के भार से यह हृदय क्यों फटा जा रहा है, क्योंकि देवता लोग इसकी शुद्धता को जानते हैं ? इस विषम- कठोर-- सत्य को वे जान लें। लोगों का मुंह हाथ से कौन बन्द करेगा ?" // 125 // टिप्पणी-लोगों को कोई नहीं समझा सकता है कि तुम यह न बोलो, यह बोलो / वे अधिकतर मूर्ख होते हैं। यह तो "विबुधों' ( बड़े विद्वानों ) का काम है कि वे गुणावगुण परखकर सत्य का निर्णय करते हैं। यहाँ चतुथं पाद में कही सामान्य बात द्वारा उपर्युक्त विशेष बात का समर्थन होने से अर्थान्तरन्यास है। 'विबुधैविबुध्यते' में छेक, 'दन्तु' 'दन्तु' में यमक अन्यत्र वृत्त्यनुप्रास है / / 125 // मम श्रमश्चेतनयानया फलो बलीयसाऽलोपि च सैव वेधसा। न वस्तु दैवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः / / 126 // अन्वयः-मम श्रमः अनया चेतनया फली ( स्यात् ); सा एव च बलीयसा वेधसा अलोपि / दैव-स्वरसात् विनश्वरम् वस्तु प्रतिकर्तुम् सुरेश्वरः अपि न ईश्वरः ( भवति ) / टीका-मम मे श्रमः आयासः देवकार्यसम्पादनमत्र इत्यर्थः अनया चेतनया 'अहं दूतोऽस्मीति' बुद्धया फली फल वान् सफल इति यावत् स्यादिति शेषः / दूतत्वबुद्धिश्च न्मयि स्थिराऽभविष्यत्तर्हि सम्भवतः देवकार्य फलेग्रहि अभविष्यदिति भावः / सा एव च चेतना बलीयसा बलवत्तरेण वेधसा विधात्रा अलोपि मयि लोपं प्रापिता विनाशितेति यावत्, तस्मात् देवसम्बन्धी मम सर्वोऽपि श्रमो