________________ 250 मैषधीयचरिते श्रीहर्ष कविराजराजिमुकुटालंकारहोरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / गौडोर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महा काव्ये चारुणि वैरसेनिचरिते सर्गोऽगमत्सप्तमः // 110 // अन्वयः-कविराज यम् ( पूर्ववत् ) गीडोर्वी.. भ्रातरि वेरसेनिचरिते चारुणि तन्महाकाव्ये अयम् सप्तमः सर्गः अगमत् / टीका-कविराजः "यम्, पूर्ववदेव टीका ज्ञेया। 'गौडोशिकूलप्रशस्तिभणिति' एतन्नामा श्रीहर्षरचितग्रन्थविशेषः तस्याः भ्रातरि सहोदरे वैरसेनेः वीरसेनपुत्रस्य नलस्य चरिते चारुणि रम्ये तस्य श्रीहर्षस्य महाकाव्ये अयम् सप्तानां पूरणः सप्तमः सर्गः अगमत् समाप्त इत्यर्थः // 110 / / इति मोहनदेव पंत प्रणीतायां 'छात्रतोषिण्यां' सप्तमः सर्गः / व्याकरण-वरसेनिः वीरसेनस्यापत्यं पुमान् इति वीरसेन + इस / अगमत् गम् + लुङ्। अनुवाद - कविराज.जन्म दिया, उसके ( बन ये ) 'गोडोर्वीशकुलप्रशस्ति भणिति' के भाई, सुन्दर 'वरसेनि चरित महाकाव्य में सातवाँ सर्ग चला गया / / 110 // टिप्पणो-नैषधीयचरित से पहले श्रीहर्ष ने 'गोडोर्वीशकुलप्रशस्ति-भणिति' नामक ग्रन्थ भी रचा था। इसीलिए उसे कवि ने इसका भाई कहा है, क्योंकि दोनों एककर्तृक हैं। मोहनदेव-पन्त द्वारा प्रणीत 'छात्रतोषिणी' में सातवाँ सर्ग समाप्त है /