________________ 434 नैषधीयचरिते क्षीर-सागरे दिवानिशं विलसतः तथा त्वमपि वरुणेन सह तत्र विलसेति भावः // 59 // व्याकरण-रामणीयकम् रमणीयस्य भाव इति रमणीय + वन , व को अक। दिवानिशम्-द्वन्द्व में एकवद्भाव और कालात्यन्त-संयोग में द्वि० / असेवि /सेव + लुङ् ( कर्मणि ) यथामनोरथम्-'यथाऽसादृश्ये' 2017 से समास / अनुवाद-"ओ कृशोदरी! स्वर्गलोक छोड़े हुए लक्ष्मी-पति ( विष्णु ) ने अत्यन्त रमणीय जिस (क्षीरसागर ) का रातदिन आश्रय ले रखा है, उस क्षीरसागर में तुम उन (वरुण) के साथ इच्छानुसार भोग-विलास करो" // 59 / / टिप्पणी-भाव यह है कि क्षीर-सागर स्वर्ग से भी अधिक सुन्दर और उत्तम है, नहीं तो विष्णु को क्या पड़ी थी कि स्वर्ग को लातमारकर वहां रहते ? इसलिये यदि तुम वरुण का वरण करोगी, तो तुम्हें भी सतत आनन्दरूप भोग के लिए क्षीरसागर मिल जायगा, जहाँ वरुणदेव रहते हैं / विद्याधर के अनुसार यहाँ अवसर अलंकार है जिसका लक्षण इस तरह है-'अर्थान्तरमुत्कृष्टं सरसं यदि चोपलक्षणं क्रियते / अर्थस्य तदभिधानप्रसङ्गतो यत्र सोऽवसरः' 'दिवा दिवा' में यमक, 'पयः पयो में छेक, अन्यत्र वृत्त्यनुप्रास है / / 59 // इति स्फुटं तद्वचसस्तयादरात्सुरस्पृहारोपविडम्बनादपि / कराङ्कसुप्तैककपोलकर्णया श्रुतं च तद्भाषितमश्रुतं च तत् // 60 // अन्वयः-कराङ्क"कर्णया तया इति स्फुटम् तत् तद्भाषितम् तद्वचसः आदरात् सुर' नात् अपि श्रुतम् च, अश्रुतम् च / टोका-करस्य हस्तस्य अंके क्रोडे मध्ये इत्यर्थः (10 तत्पु० ) सुप्तम् स्थितम् (स० तत्पु०) एकञ्च तत् कपोलकणंम् ( कर्मधा० ) कपोलो गण्डश्च कर्णः श्रोत्रं च तयोः समाहारः ( समाहार द्व०) यस्याः तथाभूतया ( ब० वी० ) तया दमयन्त्या इति एवम् स्फुटम् स्पष्टम् तत् पूर्वोक्तम् तस्य नलस्य भाषितम् कथितम् तस्य नलस्य वचस: मधुरवाचः आदरात् समानात् अनुरागादिति यावत् सुरेषु इन्द्रादिदेवेषु या स्पृहा अभिलाषः ( स० तत्पु० ) तस्या आरोप: स्थापनम् (ष० तत्पु० ) एव बिडम्बनम् उपहासः ( कर्मधा० ) तस्मात् अपि श्रुतम् आकणितं च अश्रुतम् नाकर्णितञ्च / इदं नलाकृतिदूतस्य मधुरं वचनम् इति कृत्वा