________________ 2446 नैषधीयचरिते वणे दिगीशानिति का कथा तथा त्वयोति नेक्षे नलभामपीहया। सतीव्रतेऽग्नौ तृणयामि जीवितं स्मरस्तु किं वस्तु तदस्तु भस्म यः // 7 // अन्वयः- ( अहम् ) दिगोशान् वृणे-इति का कथा ? या ( अहम् ) नल-भाम् अपि इह त्वयि इति तथा न ईथे / सतीव्रते अग्नी जीवितम् तृणयामि / स्मरः तु तत् किम् वस्तु अस्तु, यः भस्म / टीका-अहम् दिशाम् ईशान् दिक्पालान् (10 तत्पु० ) वृणे वरये इति का कथा वार्ता अहं दिक्पालान् वृणे इति कल्पना त्रिकालेऽपि न कर्तव्येति भावः / या अहम् नलस्य भाम् कान्तिम् (10 तत्पु० ) अपि इह मत्पुरोवतिनि पुरुषे त्वयि दुते / इति कारणात् तथा तेन प्रकारेण अर्थात् नले इव न ईक्षे पश्यामि / त्वयि परपुरुषे वर्तमानास्तीति कारणात् त्वद्गतनलकान्तिमपि अहम् न सम्यक्तया विलोकये पातिव्रत्यमङ्गप्रसङ्गात् का कथा वराकाणां देवानाम् वरणस्य / सत्या: व्रतम् नियमः ( 10 तत्पु० ) तस्मिन् एव अग्नौ वहीं जीवितम् प्राणान् तृणयामि तृणवत्करिष्यामि / वरं शरीरं वह्रौ प्रक्षेप्स्ये, न पुनः देवान् वरिष्ये इति भावः / स्मरः कामः तु तत् प्रसिद्धम् किम् वस्तु अस्तु भवतु, न किमपीतिकाकुः यः भस्म भस्मरूपः अभावात्मक इति यावत् अस्ति / अभावात्मकः कामः मम किमपि कर्तुं न क्षमः आत्मदाहं कर्तुं मां न निवारयितुं समर्थः अभावरूपत्वादिति यावदिति भावः // 70 // - व्याकरण-कथा/कथ् + अङ् ( भावे ) + टाप् / भा/भा + अ + टाप् जोवितम् /जीव + क्त (भावे ) / तृणयामि तृणं करोमीति तृण + कृ + णिच् + लट् भविष्यदर्थ में ( नामधा० ) / ___ अनुवाद-"मैं दिक्पालों को वरूंगी-इसकी बात ही न करो- वह मैं जो नल की शोभा तक को भी वैसे ( उत्साह के साथ ) नहीं देख पा रही हूँ, क्योंकि वह यहां सामने खड़े ( नलभिन्न ) तुममें हैं। पातिव्रत्य की अग्नि में मैं प्राणों को तृण बना दूंगी / वह काम मेरे लिए क्या चीज हो सकता है, जो (स्वयं) राख है-- // 70 // टिप्पणी-यद्यपि देवदूत में नलकी पूरी शोभा झलक रही है तथापि दमयन्ती उसे देखने के लिए उतना उत्साह नहीं दिखा रही हैं क्योंकि वह परपुरुष में है। परपुरुष को देखना सती-धर्म के विरुद्ध है। प्रश्न उठता है कि