________________ नवमः सर्गः 447 यदि नल दमयन्ती के वरने को तय्यार न हों, तो कामवश होकर वह किसी देव को कैसे नहीं वरेगी काम दुनिर्वार है। नहीं सतियों पर काम का जरा भी प्रभाव नहीं पड़ता है। दूसरे वह महादेव की तृतीय नेत्राचि से जलाया भस्मरूप है। भस्म ने भला क्या कर सकना है। सतीव्रत पर अग्नित्वारोप में और जीवन पर तृणत्वारोप में रूपक है ! कथा तथा और 'वस्तु, दस्तु' में पदान्तगत अन्त्यानुप्रास, अन्यत्र वृत्त्यनुप्रास है // 70 // न्यवेशि रत्नत्रितये जिनेन यः स धर्मचिन्तामणिरुज्झितो यया। कपालकापानलभस्मनः कृते तदेव भस्म स्वकुले स्तृतं तया // 71 // अन्वयः-जिनेन यः धर्म-चिन्तामणिः रत्न-त्रितये न्यवेशि, स यया कपालि-कोपानल-भस्म नः कृते उज्झितः तया स्व-कुले तत् एव भस्म स्तृतम् / टीका-जिनेन जिनेन्द्रेण महावीरेण यः 'धर्म: सदनुष्ठानम् सम्यक् चारित्र्यमितियावत् एव चिन्तामणि: एतदाख्यः सर्वकामनापूरको मणिविशेषः (कर्मधा०) रत्नानाम् रत्नसदृशानाम् सम्यग दर्शनम्, सम्यग् ज्ञानम्, सम्यक चारित्र्यम् इत्यात्मकानाम् श्रेयोमार्गस्य साधनानाम् त्रितये त्रये न्यवेशि निवेशितः स्थापित इत्यर्थः स धर्मचिन्तामणिः यया स्त्रिया कपालानि नरमुण्डानि मालारूपेणास्य सन्तीति कपाली महादेवः तस्य कोपः रोषः (10 तत्पु० ) एव अनल: वह्निः ( कर्मधा० ) तस्य भस्मनः भसितस्य (ष० तत्पु०) कृते निमित्त उज्झितः त्यक्तः / या नारी कामोपभोगप्रेरिता सती रत्नभूतं स्वसतीत्वधर्म चारित्र्यमिति यावत् जहासीत्यर्थः, तया स्त्रिया स्वं स्वकीयम् कुलं वंशः तस्मिन् ( कर्मघा०) तत् एव भस्म स्तृतम् विस्तारितम् / सा स्त्री भस्मात्मककामस्यार्थे स्वकुलमेव भस्मीकरोति, कलङ्कयतीति यावत् / तस्मात् चारित्र्यं रिरक्षिषोः ममाने त्वं वरणाय देवानाम् नामापि मा गृहाणेति भावः // 71 // व्याकरण-रत्नम् रमतेऽत्र मनुष्य इति/रम् + न, त आदेश। त्रितयम् त्रयोऽवयवा अत्रेति त्रितियप् / न्यवेशि-नि + Vविश् + लुङ ( कर्मणि ) / कपाली कपाल + इन् ( मतुबर्थ)। कृते तादयं में अव्यय / स्तृतम्/स्तु + क्त ( कर्मणि ) / अनुवाद-"जिनेन्द्र ने जिस धर्मरूपी चिन्तामणि को 'रत्न-त्रय' में अन्त