________________ नवमः सर्गः 4770 इयं न ते नैषध ! दक्पथातिथिस्त्वदेकतानस्य जनस्य यातना / ह्रदे ह्रदे हा न कियद् गवेषितः स वेधसाऽगोपि खगोऽपि वक्ति यः॥९७॥ अन्वयः हे नैषध ! त्वदेकतानस्य जनस्य इयम् यातना ते दृक्-पथातिथिः न / हा ! यः (खगः) वक्ति, स खगः ह्रदे ह्रदे कियत् न गवेषितः ? (किन्तु) सः अपि वेधसा अगोपि / ____टीका-हे नैषध ! निषधाधिपते ! त्वयि एकतानस्य अनन्यवृत्तेः एक-. निष्ठस्येत्यर्थः ( स० तत्पु० ) ( 'एकतानोऽनन्यवृत्तिः' इत्यमरः ) एकतानस्य एकम् तानं चिन्तनविषयो यस्य तथाभूतस्य (ब० वी० ) जनस्य मल्लक्षणव्यक्तः दमयन्त्याः इति यावत् इयम् एषा मयाऽनुभूयमाना यातना तीव्रवेदना ते तव दृशोः नयनयोः पथः मार्गस्य अतिथिः प्राधुणिकः ( उभयत्र ष० तत्पु० ) दृगगोचर इत्यर्थः न अस्तीति शेषः तव सुदूरदेश-स्थितत्वात् / हा! कष्टम् ! य: खगः स्वर्णहंस इत्यर्थः वक्ति त्वाम् प्रति मे वेदनां कथयेत् स खगः मया ह्रदे ह्रदे प्रतिह्रदम् कियत् कतिवारम् यथा स्यात्तथा न गवेषितः नान्विष्टः ? किन्तु सोऽपि वेधसा ब्रह्मणा अगोपि गुप्त: क्वापि निह्नतः मा त्वया दमयन्त्याः समीपे गन्तव्यमिति निवारित इति भावः // 96 // व्याकरण-नैषषः निषधानामयमिति निषध + अण् / यातना /यत् + णिच् + युच् + टाप् / अतिथि: इसके लिए पीछे श्लो० 49 देखिए / ह्रदः ह्रादते इति ह्रद् + अच ( कर्तरि ) निपातन से हस्व / गवेषितः गवेष + क्त ( कर्मणि ) वेधसा विदधाति जगदिति वि+Vधा + असुन्, एत्व निपातित / अगोपि /गुप् + लुङ् ( कर्मवाच्य ) / अनुवाद--“हे निषधेश ! एकमात्र तुम पर ही पूरी निष्ठा रखने वाले जन की ( मेरी ) यह यातना तुम्हारे देखने में नहीं आ रही है। हाय ! जो पक्षी ( स्वर्णहंस ) ( तुम्हारे पास मेरी यातना का ) बखान करता, उसे मैने झील-झील में ढूढ मारा, (लेकिन ) विधाता ने उसे भी छिपा दिया है" // 97 // टिप्पणी-यहाँ से लेकर चार श्लोकों में कवि नल को लक्ष्य करके किया जा रहा दमयन्ती का विलाप वर्णन कर रहा है। नारायण "दृक्पयातिथि न" को काकु के रूप में लेकर विधिपरक मान रहे हैं अर्थात् मेरी यातना तुम्हारे