________________ 452 नैषधीयचरिते करने जा रहे हैं। यहाँ इन्द्र की प्राणेश्वरी होने का कारण बता देने से काव्यलिङ्ग अलङ्कार है / 'भीरु' 'भूरु' में छेक, अन्यत्र वृत्त्यनुप्रास है // 74 / / शिखी विधाय त्वदवाप्तिकामनां स्वयंहुतस्वांशहविः स्वमूर्तिषु / क्रतुं विधत्ते यदि सार्वकामिकं कथं स मिथ्यास्तु विधिस्तु वैदिकः / / 75 / / __ अन्वयः-शिखी त्वदवाप्ति-कामनाम् विधाय स्वमूर्तिषु स्वयंहुतस्वांशहविः सन् सार्वकामिकम् ऋतुम् यदि विधत्ते, (तहि ) स वैदिकः विधिः तु कथम् मिथ्या अस्तु / टीका-शिखी अग्निः तब अवाप्तिः प्राप्तिः तस्याः कामनाम अभिलाषम् ( उभयत्र प० तत्पु 0 ) / विधाय कृत्वा स्वा: स्वकीयाः याः मूर्तयः आहवनीयादीनि त्रीणि रूपाणि शरीराणीति यावत् तासु ( कर्मधा० ) स्वयम आत्मनैव हुतं दत्तम् स्वस्य अंशः अंशभूतम् स्वभागीयम् (10 तत्पु० ) हविः ( कर्मधा० ) येन तथाभूतः (त्री० ) सन् सर्वे च ते कामाः अभिलाषाः ( कर्मधा० ) प्रयोजनम् अस्येति तथोक्तम् सर्वकामनाप्राप्तिप्रयोजनकमित्यर्थः क्रतुम् यागम् यदि विधत्त कुरुते तहि स वैदिक: वेदप्रतिपादितः विधिः अनुष्ठानम् तु कथम् केन प्रकारेण मिथ्या असत्यः अस्तु भवेत् न कथमपीति काकुः / त्वत्प्राप्तिकामनां मनसि निधाय वह्निः सार्वकामिन्यज्ञे स्वयं होता भूत्वा स्वांशमेव हविःस्वस्मिन्नेव जुहोति तर्हि तस्य त्वत्प्राप्तिः अनिवार्येव तस्मात् हे भैमि ! स्वेच्छयैव कुतोन अग्निवृणुषे ? इति भावः // 75 // व्याकरण-शिखी शिखाः (ज्वालाः) अस्य सन्तीति शिखा + इन् ( शिखामालासंज्ञादिभ्य इनिः)। कामना कम + णिच् + युच् ( भावे ) यु को अन + टाप् / हविः हूयते इति हु+असुन ( कर्मणि ) / सार्वकामिकम् सर्बकाम + ठक् ('प्रयोजनम्' 5 / 1 / 109) ठ को इक आदिवृद्धि / क्रतुः क्रियते इति / + ऋतू / वैदिकः वेद + ठक / विधिः वि+/धा कि / अनुवाद-"अग्निदेव यदि तुम्हें प्राप्त करने की कामना करके अपनी ही देहों-मूर्त रूपों में अपने आप ही ( होता बनकर ) अपना ही अंश-हवि-डालते हुए 'सार्वकामिक' यज्ञ करते हैं तो वह वैदिक अनुष्ठान किस तरह झूठा हो सकता है ?" // 75 // टिप्पणी-यज्ञीय अग्नि के तीन मूर्त रूप अथवा कार्यदेह ये हैं-गार्हपत्य,