________________ 268 नैषधीयचरिते का दूत बनाकर भेजा। इस पर यदि दमयन्ती दूत बने नल पर अनुराग कर भी ले, कोई अनुचित बात नहीं। आखिरकार दूत नल असली नल ही तो हैं। इसमें पातिव्रत्य भंग का प्रश्न ही नहीं उठता / विद्याधर और नारायण 'नूनम्' शब्द को उत्प्रेक्षा-वाचक मान रहे हैं, किन्तु हमारे विचार से 'नूनं तकऽर्थनिश्चये' इस अमरकोष के अनुसार 'नूनम्' शब्द यहाँ तकं अर्थ में लिया जाये तो ठीक बैठेगा। पर-पुरुष अनुराग करने में पातिव्रत्य-भंग कोई कल्पना नहीं, तथ्य है। अस्तु, 'नलश्रीभृति' में निदर्शना है क्योंकि नल की श्री को नल ही रख सकता है, दूसरा नहीं, इसलिए असम्भवद्-वस्तुसम्बन्ध में यहाँ बिम्बप्ततिबिम्बभाव 'श्रियमिव श्रियम्' यों सादृश्य में पर्यवसित हो रहा है / ‘भाविभावा' में छेक, अन्यत्र वृत्त्यनुप्रास है। पुण्ये मनः कस्य मुनेरपि स्यात्प्रमाणमास्ते यदघेऽपि धावत् / तच्चिन्ति चित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणद्धि // 17 // अन्वयः-मुनेः अपि कस्य मनः पुण्ये प्रमाणम् स्यात् यत् ( तत् ) अघे अपि धावत् आस्ते ? तु हृष्यत्करुणः परमेश्वरः भक्तस्य तच्चिन्ति चित्तम् रुद्धि / ___टीका-मुनेः मननशीलस्य तपःशीलस्य यते: अपि कस्य जनस्य मनः चित्तम् पुण्ये पुण्यकर्मविषये प्रमाणम् निश्चितम् स्यात् यत् यस्मात् मनः अघे पापे परस्त्रीगमनादिपापकर्मणि धावत् शीघ्र गच्छत् आस्ते वर्तते ? कोऽपि कियानपि विद्वान् विषयविरक्तो वा किं न स्यात्, किन्तु स पुण्यकर्मणि एव प्रतिष्यते न पुनः पापकर्मणि इत्यत्र नास्ति किमपि प्रमाणम् मनसोऽधोगामित्वस्यापि संभवात् इति भावः तु किन्तु हृष्यन्ती उदयन्ती करुणा दया ( कर्मधा० ) यस्य तथाभूतः ( ब० बी० ) परमेश्वरा परमात्मा भक्तस्य निजोपासकस्य तत् पापम् चिन्तयति कर्तुमिच्छतीत्यर्थः तथोक्तम् ( उपपद तत्पु० ) चित्तम् मनः रुणद्धि निवारयति पापकरणात् रक्षतीति यावत् / येषामुपरि भगवतः कृपा भवति, ते न पापकर्मसु प्रवर्तन्ते इति भावः // 17 // व्याकरण-मुनेः यास्काचार्यानुसार 'मुनिः कस्मात्' ? 'मननात् इति मन् + इन् उत्वं निपातनात् / प्रमाणम् प्रमीयतेऽनेनेति प्रx/मा + ल्युट् ( करणे ) / तच्चिन्ति /चिन्त् + णिन् ( ताच्छील्ये ) /