________________ नैषधीयचरिते माधुरी से गन्ने में मधुर रस ( जल ) बना / यहाँ भी 'रस, रस' का शब्द साम्य है। कवि की ये तीन अनोखी कल्पनायें परस्पर निरपेक्ष तीन उत्प्रेक्षाओं की संसृष्टि बना रही है। शब्द में श्लेषमुखेन दो विभिन्न रसों में अभेदाध्यवसाय होने से अतिशयोक्ति है / 'खण्डः' 'खण्डः' में यमक, 'शकंरा' 'शकर' 'दिक्ष' 'दिक्षः' में छेक, अन्यत्र वृत्त्यनुप्रास है। ददाम कि ते सूधयाऽधरेण त्वदास्य एव स्वयमास्यते हि / चन्द्रं विजित्य स्वयमेव भावि त्वदाननं तन्मखभागभोजि // 102 // अन्वयः-(हे दमयन्ति ! ) ते किम् ददाम ? हि अधरेण सुधया त्वदास्ये एव स्वयम् विजित्य स्वयम् आस्यते, ( तथा ) त्वदाननम् चन्द्रम् विजित्य स्वयम् एव तन्मखभागभोजि भावि / टीका-(हे दमयन्ति ! ) ते तुभ्यम् वयम् किं वस्तु ददाम वितराम ? अस्मत्पार्वे तुभ्यं दान-योग्यम् किमपि वस्तु नास्तीत्यर्थः हि यतः अधरेण निम्नदन्तच्छदेन सुधया अमृतेन तव आस्ये मुखे (10 तत्पु० ) एव स्वयम् आत्मना आस्यते स्थीयते अस्मत्पार्वे दातव्यम् अमृतं भवति तत्तु अधर-रूपेण त्वन्मुखे स्वयमस्त्येति किं तदानेनेत्यर्थः, तथा तव आननम् मुखम् (10 तत्पु० ) चन्द्रम् विजित्य पराभूय स्वयमेव आत्मनैव तस्य चन्द्रस्य यो मखभागः (10 तत्पु०) मखे यज्ञे भागः अंशः अन्यदेवताभ्य इव चन्द्रदेवतायै दीयमानहविरित्यर्थः ( स० तत्पु० ) तम् भजति प्राप्नोतीति तथोक्तम् ( उपपद तत्पु०) भावि भविष्यति / चन्द्रविजेतृ त्वन्मुखं चन्द्रस्य स्थाने स्वयं तद्यज्ञभागं ग्रहीष्यत्येवेत्यर्थः / अस्माकं पार्वे अमृतं यत् यज्ञहविश्वापि अन्यत् वस्तु देयमस्ति, तच्चापि त्वत्पार्वे आयास्यत्येवेति किं तद्दानेनेति भावः / / 102 // व्याकरण-ददाम दा + लोट उ० ब०। अधरः अधः ऋच्छतीति अधः + /ऋ+ अच् ( निपातित ) / आस्यम् अस्यते ( क्षिप्यते ) अत्रान्नादिकम् इति/अस् + ण्यत् ( अधिकरणे ) / आस्यते /आस् + लट् ( भाववाच्य ) / भावि भू + इन् / अनुवाद-( दमयन्ती!) तुम्हें हम क्या दें? कारण यह है कि अधररूपी अमृत तुम्हारे मुखपर ही स्थित है एवं तुम्हारा मुख चन्द्रमा को परास्त करके स्वयं ही उस ( चन्द्रमा) के यज्ञ-भाग का भागी बन जाएगा // 102 //