________________ 390 षधीयचरिते + टाप् / निमिषम् कालात्यन्तसंयोगे द्वि० / रुषा /रुष्+विवर ( भावे ) तृ० / शरव्यीकरणे शरव्य + V + च्वि ईत्वम् + ल्युट ( भावे ) / अनुवाद-"(हे दमयन्ती ! ) जैसे-जैसे यह जन ( = मैं) तुम्हारी उपेक्षा से यहाँ पल भर का भी विलम्ब करता जा रहा है, वैसे-वैसे कामदेव देवताओं को अपना निशाना बनाने में इस क्षण जल्दी कर रहा है" // 20 // टिप्पणो--विद्याधर के अनुसार यहाँ अतिशयोक्ति है। विलम्ब करना और काम का निशाना बनाना दोनों का यहाँ युगपत् होना बताया गया है जब कि कारणकार्यभाव होने से पहले विलम्ब होता है तब काम की मार होती है। इस तरह कार्यकारणपौर्वापर्यविपर्ययातिशयोक्ति है। शब्दालङ्कारों में 'यथायथे' 'तथातथा', 'रते रतेः' में छेक, 'क्षयानया' 'मेषमप्येष' में पदान्तगत अन्त्यानुप्रास, अन्यत्र वृत्त्यनुप्रास है // 20 // इयच्चिरस्यावदधन्ति मत्पथे किमिन्द्रनेत्राण्यशनिन निममौ / धिगस्तु मां सत्वरकार्यमन्थरं स्थितः परप्रेष्यगुणोऽपि यत्र न // 21 // अन्वयः-मत्पथे इयच्चिरस्य अवदधन्ति इन्द्रस्य नेत्राणि अशनि: न निर्ममौ किम् ? सत्वर-कार्य-मन्थरम् माम् धिक् अस्तु, यत्र परप्रेष्य-गुण: अपि न स्थितः ( अस्ति)। टीका-मम पन्थाः मार्गः तस्मिन् (10 तत्पु०) इयत् एतावत् यथा स्यात्तथा चिरस्य चिरम् एतावद्-बहुकालपर्यन्तमित्यर्थः अवदधन्ति अवधानं ददन्ति सावधानानि प्रतीक्षमाणानीति यावत् इन्द्रस्य मघोनः नेत्राणि सहस्रसंख्यकनयनानि ( कम ) अशनिः वज्रम् ( कर्ता ) न निर्ममौ न निर्मितवान् किम् अपि तु निर्ममौ एवेति काकुः, एतावद्वहुकालपर्यन्तं मत्प्रतीक्षायां स्थितानि मघोनः नयनानि यन्न स्फुटितानि तत् नूनं वज्रनिमितान्येव तानि सन्तीति भावः / सत्वरम् त्वरया सहितम् (ब० बी० ) त्वरया क्रियमाणमित्यर्थः यत् कार्यम् कृत्यम् ( कर्मधा० ) तस्मिन् मन्थरम् मन्दम् शीघ्रकर्तव्ये कार्ये बिलम्बं कुर्वाणम् माम् नलम् धिक् अस्तु, अहं धिक्कार योग्योऽस्मीत्यर्थः, यत्र यस्मिन् मयि नले परस्य अन्यस्य प्रेष्यस्य भृत्यस्य दूतस्य ('प्रेष्य-भुजिष्य-परिचारकाः' इत्यमरः) गुणः धर्मः ( उभयत्र ष० तत्पु० ) अपि न स्थितः न विद्यमानः अस्तीति शेषः / कार्यं त्वरितं निष्पादयागमनम् अनिष्पन्नस्य कार्यस्य