________________ नैषधीयचरिते गले लगा लिया समझो / जा रही है अग्निदेव से बचने किन्तु अनचाहे स्वयं उसका आलिङ्गन कर बैठेगी। इस तरह यहाँ विषमालङ्कार है, क्योंकि भलाई की खोज में अनर्थोत्पत्ति बताई जा रही है। विद्याधर 'काव्यलिङ्ग कह रहे हैं / 'नले' 'नलो' में छेक, अन्यत्र वृत्त्यनुप्रास है / / 47 // जितं जितं तत्खलु पाशपाणिना विना नलं वारि यदि प्रवेक्ष्यसि / तदा त्वदाख्यान्वहिरप्यसूनसौ पयःपतिर्वक्षसि वक्ष्यतेतराम् // 48 // अन्वयः-(हे दमयन्ति ! ) यदि ( त्वम् ) नलम् विना वारि प्रवेक्ष्यसि, तत् पाश-पाणिना जितं जितं खलु; ( यतः) असो पयःपतिः तदा त्वदाख्यान असून् बहिः अपि वक्षसि वक्ष्यतेतराम् / / ____टीका-(हे दमयन्ति ! यदि चेत् त्वम् अनलम् विना अन्तरेण मा तावन्मे शरीरम् अग्नी अर्यतामिति विचार्येत्यर्थः वारि जलम् प्रवेक्ष्यसि मरणार्थ 'जले आत्मानं निमज्जयिष्यसि, तत् तहि पाशः बन्धनरज्जुः पाणौ हस्ते यस्य तथाभूसेन ( ब० वी० ) वरुणेनेत्यर्थः ('प्रचेता वरुण: पाशी' इत्यमरः ) जितं जितम् अतितरां जितम् खलु निश्चयेन / यतः असो पयसा जलानां पतिः स्वामी (10 तत्पु०) वरुणः तदा तस्मिन् समये त्वयि जले प्रविष्टायां सत्यामिति यावत् त्वम्, आख्या नाम येषां तथामूतान् (ब० वी० ) त्वन्नामकानित्यर्थः बहिः बाह्यरूपेण अधि वक्षसि वक्षःस्थले वक्ष्यतेतराम् अतिशयेन धारयिष्यसि / त्वम् वरुणदेवस्य प्राणरूपासि, सततञ्च अद्य यावत् तेन हृदये एव धार्यसे, न बहि:, किन्तु मरणार्थम् अग्नि परित्यज्य जले प्रविष्टां त्वामसी इदानीं बहिः वक्षःस्थलेऽपि धारयिष्यतीति तस्य महान् विजय इति भावः // 48 // __व्याकरण-प्रवेक्ष्यसि प्र + / विश् + लुट् / जितं-जितम् में आभीक्ष्ण्य अथवा अतिशय अर्थ में द्विरुक्ति / आख्या आख्यायतेऽनयेति आ +ख्या + अङ् + टाप् / असून् अस्यन्ते शरीरे इति/अस् + उन् / वक्ष्यतेतराम् /वह + लट् ( कर्मणि )+ तरप् + आम् ( स्वार्थ ) / अनुवाद-"(हे दमयन्ती ! ) यदि तुम अग्नि को छोड़कर जल में प्रवेश करोगी, तब तो सचमुच बरुणदेव की पाँचों अंगुलियां घी में हैं ( क्योंकि ) वह जल के ( अधिष्ठातृ ) देवता ( वरुण ) तब तुम्हारे नामरूप ( अपने ) प्राणों को ( भीतर की तरह ) बाहर भी वक्ष पर अच्छी तरह धारण कर ला 48 ॥ोंगे