________________ नैषधीयचरिते व्याकरण-फलिनम् फलमस्यास्तीति फल + इनच् (मतुबर्थ ) प्रभुम् प्रभवतीति प्र + /भू + डु। इत्थम् इदम् + थम् ( प्रकारवचने ) / सुरान् इसके लिए पीछे सर्ग 5 श्लोक 34 देखिए / अर्हा अर्हतीति /अर्ह, + अच् ( कर्तरि) +टाप् / अनुवाद-"( हे दमयन्ती! ) मेरे इस (दौत्यसम्बन्धी) प्रयत्न को सफल नहीं बनाती हो क्या ? दिशा के किसी एक स्वामी पर अनुग्रह नहीं करती हो क्या? इस तरह माधुर्य-रूपी अमृत में स्नान करने से पवित्र बनी वाणी द्वारा तुम देवताओं की अर्चना करने योग्य हो"। - टिप्पणी-भाव यह है कि जिस प्रकार तुम अपनी अमृत-स्नात वाणी से प्रसन्न कर रही हो वैसे ही किसी एक देवता को अपनी स्वीकृतिका मधुर सन्देश भेजकर प्रसन्न कर दो। इसी में मेरा दौत्य चरितार्थ हो जाएगा। रस पर अमृतत्वारोप में रूपक और शब्दालंकार वृत्त्यनुप्रास है। 18 // सुरेषु संदेशयसीदृशीं बहुं रसस्रवेण स्तिमितां न भारतीम् / मदर्पिता दपंकतापितेषु या प्रयाति दावादितदाववृष्टिताम् // 19 // अन्वयः-( हे दमयन्ति ! ) त्वम् बहुम् रसस्रवेण स्तिमिताम् ईदृशीम् भारतीम् सुरेषु न संदेशयसि ? या मदर्पिता ( सती ) दर्पक-तापितेषु दावा "ताम् प्रयाति / टीका-(हे दमयन्ति ! ) त्वम् बहुम् विपुलाम् विस्तृतामितियावत् रसस्य माधुर्यस्य स्रवेण प्रवाहेण स्तिमिताम् आर्द्राम् ('आर्द्र सादें क्लिन्नं तिमितं स्तिमितम्' इत्यमरः) ईदृशीम् एतादृशीम् भारतीम् वाणीम् सुरेषु देवेषु देवानुविद्दश्येत्यर्थः न संवेशयसि संदेश-रूपेण परिणमयसि ? मद्-द्वारा देवान् प्रति संदेश-रूपेण स्वमधुरवाणों प्रेषयेत्यर्थः या वाणी मया अपिता देवेषु प्रापिता सती दर्पण कंदर्पण ( 'कंदर्पो दर्पर्कोऽनङ्गः' इत्यमरः ) तापितेषु प्रपीडितेषु देवेषु वाव: वनाग्निः तेन अदितः पीडितः दह्यमान इत्यर्थः ( तृ० तत्पु० ) यः दावः वनम् ( कर्मधा० ) ('दाव-दावी वनारण्यवह्नी' इत्यमरः) तस्मिन् वृष्टिताम् वर्षात्वम् (स० तत्पु०) प्रयाति प्राप्स्यति / यथा दावाग्निदह्यमानारण्यस्य तापं वृष्टिः शमयति तथैव कामतप्यमान-देवानां तापं तव मधुरवाणी शमयिष्यतीति भावः // 19 // व्याकरण- रस: /रस् + अच् ( भावे ) / लयः /स्र + अप (भावे)।